शौर्य, वीरता साहस इत्येषाम् उत्सवोऽस्ति उत्तराखंडस्य लोक पर्व इगास
देहरादूनम्, 31 अक्टूबरमासः (हि.स.)। दीपावलिपर्वणः एकादशदिनात् अनन्तरं प्रदेशे जनाः उत्साहेन एकादशीं प्रतीक्षन्ते। अद्य उत्तराखण्डप्रदेशस्य प्रमुखः लोकपर्वः इगासः नाम्ना प्रसिद्धः सम्पद्यते। अस्मिन् दिने लक्ष्मीमातुः पूजा न क्रियते, किन्तु वीरभद्रस्
फाइल फाेटाे : ढाेल-दमाऊ के साथ भैलाे खेलते लाेग।


देहरादूनम्, 31 अक्टूबरमासः (हि.स.)। दीपावलिपर्वणः एकादशदिनात् अनन्तरं प्रदेशे जनाः उत्साहेन एकादशीं प्रतीक्षन्ते। अद्य उत्तराखण्डप्रदेशस्य प्रमुखः लोकपर्वः इगासः नाम्ना प्रसिद्धः सम्पद्यते। अस्मिन् दिने लक्ष्मीमातुः पूजा न क्रियते, किन्तु वीरभद्रस्य माधो सिंह भण्डारीनाम्नः रणविजयात् प्रत्यागमनस्य स्मरणाय उत्सवः आयोज्यते।

अस्मिन् अवसरे गृहेषु नानाविधानि व्यञ्जनानि निर्मीयन्ते, तथा साहसस्य प्रतीकं भैलो-क्रीडा नामकं क्रीडारूपं क्रियते। ढोल-दमाऊवाद्ययुगलेन सह ग्रामे ग्रामे बालकबृद्धनारीपुरुषाः नृत्यन्ति, गीतानि च गायतः — “भैलो रे भैलो, काखडी को रैलू, उज्यालू आलो अन्धेरो भागलो...” इति।

उत्साह, उल्लास, आनंदस्य प्रतीकः अयं पर्वः इगासः वृद्धादीपावली, हरिबोधिनी एकादशी, देवोत्थान एकादशी इत्यादि नामभिः अपि प्रसिद्धः अस्ति। एषा उत्तराखण्डस्य प्राचीनपरम्परा अस्ति।

कथानुसारं, गढवालदेशे श्रीरामस्य अयोध्यां प्रत्यागमनवार्ता विलम्बेन आगता आसीत्। एकादशदिनानन्तरं तस्य आगमनवार्तायां प्राप्तायां दीपावली उत्सवः आचरितः।

अन्ये तु इतिहासज्ञाः एवं वृद्धाः एतत् पर्वं संवत् १६३२ वर्षस्य तिब्बतयुद्धेन सम्बन्धयन्ति। तदा गढवालराज्ये महाराजः महिपतशाहः शासनं कुर्वन् आसीत्। तस्य सेनापतिः वीरमाधो सिंहभण्डारी युद्धे विजयं प्राप्त्य एकादशदिनानन्तरं प्रत्यागतः। तस्य वीरस्य तथा गढवालीसैनिकानां सम्मानार्थं ग्रामजनैः भैलोखेलनम् आरब्धं, तदेव इगासोत्सवस्य आद्यरूपम् अभवत्।

भैलोः स्वरूपम् —

चीडवृक्षस्य अन्तः एकः अतिज्वलनशीलः रक्तवर्णः काष्ठांशः अस्ति, यं छिल्ल इति कथ्यते। तं दीर्घतया छित्त्वा बब्लू-नाम्ना तृणरस्स्या साहाय्येन बद्ध्वा दीर्घसूत्ररूपेण संयोज्यते। एवं प्रकारेण भैलः सज्जीक्रियते।

क्रीडाविधानम् —

ग्रामे धूनी प्रज्वाल्य सर्वे ग्रामवासी स्वस्वभैलान् दहन्ति। ततः ढोलदमाऊवाद्यैः सह ते कृषिक्षेत्रेषु गत्वा ज्वलितछिल्लान् आकर्षकनृत्यरूपेण घूर्णयन्ति। एषा क्रीडा साहसपूर्णा च भवति — यः अनभ्यस्तः सः दाहेन पीडितः अपि भवेत्।

अस्मिन् दिने सर्वत्र ग्रामक्षेत्रेषु भैलो-नृत्यदर्शनं दृश्यते।

मुख्यमंत्री-निवासे अपि भैलो-आयोजनम् —

संस्कृतिविभागेन अस्य लोकपर्वणः प्रचारार्थम् अस्मिन् वर्षे मुख्यमंत्री-निवासे अपि विशेषं भैलो-खेलनं आयोज्यते। मुख्यमंत्रि-आदेशेन एषः विशेषः उत्सवः सम्पन्नः भविष्यति।

हिन्दुस्थान समाचार