Enter your Email Address to subscribe to our newsletters

नवदेहली, ३१ अक्टूबरमासः (हि.स.)। भारतसङ्घराज्येन देशव्याप्येषु १,४६६ आरक्षक-सुरक्षाबलकर्मसु ‘केंद्रीयगृहमन्त्रिणः दक्षतापदकम्’ इत्यस्मिन् पदकेन सम्माननं कृतम्। एतत् सम्मानं विशेषसञ्चालनं, अनुसन्धानं, गुप्तसेवा तथा न्यायवैज्ञानिकविज्ञानस्य (फॉरेन्सिक्-विज्ञानस्य) क्षेत्रेषु उत्कर्षप्रदर्शनाय प्रदत्तम्।
गृहमन्त्रालयस्य कथनुसारं विशेषसञ्चालनविभागे ३९० अधिकारीणः चयनिताः। तेषु देहली-आरक्षकस्य उपआरक्षकनिदेशकाः प्रतीक्षा गोडारा, केन्द्रीयआरक्षित-आरक्षकबलस्य (सीआरपीएफ्) अधिनायकः देवेन्द्रसिंह कठायत्, छत्तीसगढ़राज्यस्य महानिरीक्षकः (आई.जी.) सुन्दरराज पट्टिलिङ्गम्, जम्मूकाश्मीरस्य महानिरीक्षकः विद्याकुमार बिर्दी च सम्मिलिताः सन्ति।
छत्तीसगढ़राज्यात् सर्वाधिकं २००-अधिकाः आरक्षकस्तरस्य सैनिकाः अस्मिन् सम्मानाय पात्राः अभवन्। एतेषां सैनिकानां नक्सलविरोधिषु अभियानेषु पराक्रमः उत्कृष्टकार्यं च दृष्टम्। तथैव केन्द्रीयआरक्षितआरक्षकबलस्य ५०-अधिकाः कर्मिणः आतंकविरोधिकर्मसु विशिष्टयोगदानाय चयनिताः।
गृहमन्त्रालयेन उक्तम्— “एतस्य पदकस्य उद्देश्यः उत्कृष्टकार्यप्रोत्साहनम्, व्यावसायिकमानदण्डोन्नयनम्, च आरक्षकबलानां मनोबलवृद्धिश्च अस्ति।”
उल्लेखनीयम् यत् एषः पदकः गृहमन्त्रालयेन फरवरी २०२४ तमे मासे आरब्धः। एषः प्रत्येकवर्षं ३१ अक्टूबरदिनाङ्के देशस्य लौहपुरुषस्य सरदारवल्लभभाईपटेलस्य जयंतीदिवसे उद्घोष्यते।
हिन्दुस्थान समाचार / अंशु गुप्ता