छत्तीसगढे देशस्य प्रथमं डिजिटलजनजातीयसंग्रहालयं सन्निर्मितम्, प्रधानमन्त्रिणा नवम्बरमासस्य प्रथमे दिने उद्घाटनं करिष्यते
रायपुरम् , 31 अक्तुबरमासः (हि.स.)। छत्तीसगढराज्यस्य नवरायपुरनामके स्थले देशस्य प्रथमं डिजिटलजनजातीयसंग्रहालयं सुसम्पन्नं जातम्। बलिदानी-वीरनारायणसिंहस्मारकेन सह-आदिवासीस्वातन्त्र्यसंग्रामसेनानी-नामधेयेन एतत् संग्रहालयं प्रधानमन्त्रिणा नरेन्द्रमोदि
वीर नारायण सिंह स्मारक सह आदिवासी स्वतंत्रता संग्राम सेनानी संग्रहालय


आदिवासी स्वतंत्रता संग्राम सेनानी संग्रहालय का निरीक्षण करते मुख्यमंत्री साय


संग्रहालय में ग्रामीण आदिवासी परिवेश का चित्रण


रायपुरम् , 31 अक्तुबरमासः (हि.स.)। छत्तीसगढराज्यस्य नवरायपुरनामके स्थले देशस्य प्रथमं डिजिटलजनजातीयसंग्रहालयं सुसम्पन्नं जातम्।

बलिदानी-वीरनारायणसिंहस्मारकेन सह-आदिवासीस्वातन्त्र्यसंग्रामसेनानी-नामधेयेन एतत् संग्रहालयं प्रधानमन्त्रिणा नरेन्द्रमोदिना नवम्बरमासस्य प्रथमे दिने उद्घाट्यते।

अस्मिन् संग्रहालये आदिवासिनां जीवनशैली, तेषां जननायकानां गौरवगाथा, लोकसंस्कृतिश्च नूतनतन्त्रज्ञानस्य साहाय्येन 'वर्चुअल्-रियालिटी' नाम्ना माध्यमेन प्रदर्श्यते। पञ्चाशत्कोटिरूप्यकव्ययेनेदं दशएकरभूमौ सन्निर्मितं जातम्। अत्र ब्रिटिशराज्यकाले जातानां जनजातिविद्रोहानां दृश्यरूपी प्रदर्शनी अपि निर्मिता। संग्रहालये सेल्फिस्थानं कॉफीपानपीठम्, दिव्याङ्गजनानां वरिष्ठनागरिकाणां च कृते विशेषसुविधाः उपलब्धाः भविष्यन्ति। क्यू.आर्.-कोड इत्यस्य साहाय्येन मोबाइलद्वारा अपि एषः संग्रहालयः दृष्टुं शक्यते।

अत्र चतुर्दशमार्गेषु ब्रिटिशराज्यकाले जनजातीयस्वातन्त्र्यसंग्रामसेनानिनां प्रायः षट्शत्-पञ्चाशदधिकाः मूर्तयः प्रतिष्ठापिताः। प्रथमे प्रदर्शनीमध्ये छत्तीसगढस्य जनजातीय-जीवनशैली प्रदर्श्यते, द्वितीयप्रदर्शनीमध्ये राज्यस्य जनजातीनां प्रति आङ्ग्लराज्यस्य स्थानिकराज्यस्य च अत्याचाराः दर्श्यन्ते। तृतीयप्रदर्शनीमध्ये हल्बाविद्रोहः, चतुर्थप्रदर्शनीमध्ये सरगुजाविद्रोहः, पञ्चमप्रदर्शनीमध्ये भोपालपट्टनमविद्रोहः, षष्ठप्रदर्शनीमध्ये परलकोट-विद्रोहः, सप्तमप्रदर्शनीमध्ये तारापुर-विद्रोहः, अष्टमप्रदर्शनीमध्ये लिङ्गागिरि-विद्रोहः, नवमप्रदर्शनीमध्ये कोई-विद्रोहः इत्येतानि दृश्यरूपेण स्थापितानि।

एवमेव दशमप्रदर्शनीमध्ये दन्तेवाडामेरियाविद्रोहः, एकादशप्रदर्शनीमध्ये मुरिया-विद्रोहः, द्वादशप्रदर्शनीमध्ये रानी-चौरिस्-विद्रोहः, त्रयोदशप्रदर्शनीमध्ये बस्तर-भूमकाल-विद्रोहः, चतुर्दशप्रदर्शनीमध्ये शहीद-वीरनारायणसिंहस्य सोनाखान-विद्रोहः च, पञ्चदशप्रदर्शनीमध्ये झण्डा-सत्याग्रहः तथा जङ्गलसत्याग्रहः इत्येतयोः सन्दर्भे वीर-आदिवासि-नायकानां संघर्षः उत्कृष्टतया चित्रितः।

छत्तीसगढस्य मुख्यमन्त्रिणा विष्णुदेवसायनामकेन उक्तं यत् — “नवम्बरमासस्य प्रथमे दिने उद्घाट्यमानम् एतत् अत्याधुनिकतन्त्रज्ञाननिर्मितं संग्रहालयम् आदिवासिनां संघर्षगाथया प्रस्तुतिर्भविष्यति। एषः आदिवासिसमाजस्य दमनविरोधे प्रारब्धस्य आन्दोलनस्य साक्षी अस्ति। आगामिनः पीढयः अपि स्वस्य विरासत-धरोहरयोः विषये ज्ञानं प्राप्नुयुः, एषा सर्वेषां चेष्टा भवेत्। येन आदिवासिसमाजः स्वहितरक्षणाय, सांस्कृतिकविरासत्संरक्षणाय च यः दीर्घं संघर्षं कृतवान्, तस्य संरक्षणं अस्माकं सर्वेषां प्रथमा प्राथमिकता।”

शहीद-वीरनारायणसिंह-आदिवासी- स्वातन्त्र्यसंग्रामसेनानीस्मारकेन सह संग्रहालयः पञ्चाशत्कोटि-रूप्यकव्ययेनेव निर्मितः। अत्र चतुर्दश-प्रदर्शनीमध्ये आङ्ग्लराज्यकाले जनजातीयस्वातन्त्र्यसंग्रामसेनानिनां प्रायः षट्शत्-पञ्चाशदधिकाः मूर्तयः प्रतिष्ठिताः। जनजातिविद्रोहानां विषये जनाः सुगमतया अवगन्तुं शक्नुयुः इति हेतोः डिजिटल्-व्यवस्था अपि स्थापिता अस्ति।

एषः आदिवासीस्वातन्त्र्यसंग्रामसेनानी- संग्रहालयः देशस्य प्रथमः आदिवासी-डिजिटल्-संग्रहालयः अस्ति। संग्रहालये कृत्रिम-बुद्धिमत्ता इत्यस्य साहाय्येन कैमरा-यन्त्रं प्रतिष्ठापितम् अस्ति। यत्र यदि जनः तस्य अग्रे तिष्ठति तर्हि तस्य वस्त्ररचना, पृष्ठभूमिश्च आदिवासिवेशभूषया परिवर्त्यते।आदिवासिनां वस्त्र, निवासपद्धतयः, संस्काराश्च स्वयमेव दृश्यन्ते।

सर्वे षोडश-प्रदर्शनीमध्ये राज्ये जातानां सर्वेषां आदिवासीस्वातन्त्र्यसंग्रामसेनानिनां च आन्दोलनानां विषये विस्तीर्णा सूचना प्रदत्ता भविष्यति। एतेषु आन्दोलनेषु हल्बाविद्रोहः (१७७४–१७७९), सरगुजाविद्रोहः (१७९२), भोपालपट्टनम्विद्रोहः (१७९५), परलकोटविद्रोहः (१८२४–१८२५), तारापुरविद्रोहः (१८४२–१८५४), मेरियाविद्रोहः (१८४२–१८६३), कोईविद्रोहः (१८५९), लिङ्गागढविद्रोहः (१८५६), सोनाखानविद्रोहः (१८५७), रानी-चो-चेरस-आन्दोलनम् (१८७८), तथा भूमकालविद्रोहः (१९१०) इत्यादयः सम्मिलिताः।

आदिमजाति-विकासमन्त्रिणा रामविचारनेताम नामकेन उक्तं यत् — “प्रधानमन्त्रिणः नरेन्द्र-मोदिनः परिकल्पनाया: परिणामरूपेण एषः जनजातिसमुदायस्य ऐतिहासिकगौरवगाथा, शौर्यं, बलिदानं च द्योतयन् संग्रहालयः जनसमाजे समर्प्यते। एषः संग्रहालयः नूतनपीढीनां कृते पुरातनानां वीराणां स्मरणं चिरस्थायीं करिष्यति।”

---

हिन्दुस्थान समाचार / अंशु गुप्ता