Enter your Email Address to subscribe to our newsletters



गान्धीनगरम्, 31 अक्तुबरमासः (हि.स.)। गुजरातराज्यस्य एकतानगरे लौहपुरुषस्य सरदारवल्लभभाईपटेलस्य शतपञ्चाशततमजन्मजयन्त्याः अवसरं प्रति प्रधानमन्त्रिणा नरेन्द्रमोदिना उपस्थित्या राष्ट्रीयएकतादिवसस्य भव्यम् आयोजनं कृतम्। तस्मिन् अवसरे विविधराज्यानां आरक्षकदलानां, सुरक्षादलानां, वाद्यदलानां च शोभायात्रा सम्पन्ना। प्रधानमन्त्रिणा मोदिना तस्याः शोभायात्रायाः सलामी स्वीकृता।
अस्मिन् समारोहे एव नारीसशक्तीकरणं प्राधान्येन निर्दिश्य महिलाभिः विभिन्नेषु बलदलेषु नेतृत्वं स्वीकृत्य सशक्तनेतृत्वस्य परिचयः प्रदर्शितः। अस्यां शोभायात्रायां सीमासुरक्षाबलस्य (BSF) वाद्यदलः, भारततिब्बतसीमाबलः (ITBP), केन्द्रीय-औद्योगिकसुरक्षाबलः (CISF) तस्य च वाद्यदलः, केन्द्रीय आरक्षीबलः (CRPF) तस्य वाद्यदलः, सीमासुरक्षाबलस्य (SSB) वाद्यदलः, देहली- आरक्षकवाद्यदलः च सम्मिलिताः आसन्।
तदनन्तरं आन्ध्रप्रदेश-असम-, छत्तीसगढ-जम्मूकाश्मीर- पंजाब- मध्यप्रदेश-ओडिशा-महाराष्ट्र-केरल-, त्रिपुरादिराज्यानां आरक्षकदलाः अपि सहभागिनः आसन्। एनसीसी (राष्ट्रीयकैडेट् कोर्प्स्) पदातिदल:, अश्वरूढदलः, श्वदलः, ऊष्ट्रदलः, ऊष्ट्रारूढवाद्यदलः, तथा स्वच्छतायन्त्रदल: अपि तत्र उपस्थित:। एते सर्वे दलाः राष्ट्रीयएकतायाः, शान्तेः, अनुशासनस्य च प्रतीकं सशक्तं नारीनेतृत्वं च प्रतीत्य दर्शयामासुः।
---
हिन्दुस्थान समाचार / अंशु गुप्ता