Enter your Email Address to subscribe to our newsletters

केवडिया (गुजरात), ३१ अक्टूबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी अद्य नर्मदाजनपदस्य केवडिया–नगर्यां (आधिकारिकनाम एकतानगरम्) स्थिते एकताप्रतिमायां (स्टैच्यू ऑफ यूनिटी) राष्ट्र–एकतादिवसस्य तथा लौहपुरुषस्य सरदारवल्लभभाईपटेलस्य 150 तमजन्मदिवसस्य अवसरं प्रति आगत्य तस्य प्रतिमायै पुष्पाञ्जलिं अर्पितवन्तः।
यथा प्रति वर्षं तथैव प्रधानमन्त्री महोदयेन सरदारपटेलप्रतिमायां श्रद्धाञ्जलिः समर्पिता। स्टैच्यू ऑफ यूनिटी–प्रदेशे प्रभाते एव वर्षा अभवत्। लौहपुरुषस्य पटेलस्य जन्मदिवसे राष्ट्र–एकतादिवसस्य भव्यायां आयोजनायां सहभागीभवितुं गुजरातराज्यस्य नानानगरेभ्यः जनाः बहुसंख्येन आगताः।
प्रधानमन्त्री सरदारस्मारकस्य परिदर्शनं कृत्वा राष्ट्र–एकतादिवससमारोहे भागं स्वीकृतवन्तः। तेन जनानां प्रति एकताशपथं दत्तम्। अस्मिन् अवसरे एकतापदयात्रायाः अवलोकनं कृतम्। प्रधानमन्त्री मोदी महोदयाः सैनिकान् देशवासीन् च संबोधितुम् आगतवन्तः। अस्मिन् अवसरे अष्टशताधिकाः आई.ए.एस्. तथा आई.पी.एस्. अधिकारी उपस्थिताः आसन्। वृष्ट्याः कारणेन प्रधानमन्त्री वडोदरात् केवडियायां मार्गेण प्राप्तवन्तः।
प्रधानमन्त्री मोदी अद्य पूर्वाह्णे १०:४५ वादने ‘आरम्भ ७.०’ कार्यक्रमस्य समापनसमये प्रशिक्षुभिः सह संवादं करिष्यन्ति। अनन्तरं द्वादशवादने (१२:२०) केवडियात् वडोदराय प्रस्थानं करिष्यन्ति। मध्याह्ने १:०० वादने वडोदरा–विमानपत्तनात् देहलिं प्रति प्रयास्यन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता