प्रधानमन्त्री नरेन्द्रः मोदी सरदारवल्लभभाईपटेलस्य शतपञ्चाशदधिकजन्मजयन्त्यां श्रद्धाञ्जलिम् अर्पितवान्
नवदेहली, 31 अक्टूबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रः मोदी अद्य लौहपुरुषस्य सरदारवल्लभभाईपटेलस्य शतपञ्चाशदधिकजन्मजयन्त्यां श्रद्धाञ्जलिं अर्पितवान्। सः उक्तवान् यत् सरदारपटेलः भारतस्य ऐक्यस्य प्रेरणास्रोतः आसीत्, स्वातन्त्र्यलाभानन्तरं च राष्ट्र
PM Narendra Modi


नवदेहली, 31 अक्टूबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रः मोदी अद्य लौहपुरुषस्य सरदारवल्लभभाईपटेलस्य शतपञ्चाशदधिकजन्मजयन्त्यां श्रद्धाञ्जलिं अर्पितवान्। सः उक्तवान् यत् सरदारपटेलः भारतस्य ऐक्यस्य प्रेरणास्रोतः आसीत्, स्वातन्त्र्यलाभानन्तरं च राष्ट्रस्य आधारं दृढीकर्तुं ऐतिहासिकं योगदानं कृतवान्।

प्रधानमन्त्री मोदी अवदत् यत् सरदारपटेलस्य अटूटप्रतिबद्धता राष्ट्रीयैक्ये, सुशासने, जनसेवायां च अद्यापि नूतनपुस्ततान् प्रेरयति। अस्मिन् अवसरस्य सन्दर्भे सः उक्तवान् यत् वयं सर्वे अपि सरदारपटेलस्य ऐक्य, शक्ति, आत्मनिर्भरता इत्येतयोः संकल्पयोः प्रगतिं प्रति प्रतिबद्धाः स्मः।

प्रधानमन्त्रिणा सामाजिकमाध्यमे ‘एक्स्’ इत्यस्मिन् प्रसारणपटलस्य माध्यमेन प्रकाशितं यत् — “भारतं सरदारवल्लभभाईपटेलस्य शतपञ्चाशदधिकजन्मजयन्त्यां श्रद्धाञ्जलिम् अर्पयति। ते भारतैक्यस्य प्रेरणास्रोतः आसन्, आरम्भिकवर्षेषु च अस्माकं राष्ट्रस्य नियतिम् आकारं दत्तवन्तः। राष्ट्रीयैक्ये, सुशासने, जनसेवायां च तेषां दृढनिष्ठा अद्यापि पीढीनाम् प्रेरणास्त्रोतं वर्तते। वयं तेषां एकीकृतस्य, सशक्तस्य, आत्मनिर्भरस्य भारतस्य संकल्पं साकारयितुं दृढप्रतिज्ञाः स्मः।”

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता