Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 30 अक्टूबरमासः (हि.स.)। असमसूचनायोगेन पारदर्शितां जवाबदेहीं च सशक्तुं लक्ष्यीकृत्य “सूचनाअधिकारसप्ताहस्य” आयोजनं कृतम्।
कार्यक्रमे सर्वकारी-अधिकारानां नागरिकानां च मध्ये सूचनाअधिकार-अधिनियमस्य विषये जागरूकतावृद्धौ बलं प्रदत्तम्। अस्मिन्नेव अवसरे ‘आबेदानकारीर हातपुथी’ इति नामकग्रन्थस्य विमोचनं कृतम्।
मुख्यसूचनायुक्तः भास्करज्योति महन्तः (सेवानिवृत्तः भारतीयपुलिससेवकः) स्वभाषणे सूचनाअधिकारस्य महत्त्वं प्रकाश्य समयबद्धं नागरिकहितैषिणं च उत्तरदायित्वं आवश्यकमिति उक्तवान्। कार्यक्रमे सूचनाधिकारविषयकम् एकं दृश्यचित्रं अपि प्रकाशितं जातम्, तथा मुक्त अधिकारानुभवाः अपि सार्वजनिककृताः।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता