Enter your Email Address to subscribe to our newsletters

रायपुरम्, 31 अक्टूबरमासः (हि.स.)। मुख्यमंत्री विष्णुदेवसायः अद्य शुक्रवासरे मंत्रालये महानदीभवने स्थिते मुख्यमंत्रिणः सचिवालये अखिलभारतीयरामनामीमहासभायाः प्रतिनिधिमण्डलेन सह सौजन्यभेटां कृतवान्। तेभ्यः सक्तिजिलायाः ग्रामे नन्देली इत्यस्मिन् 29 डिसम्बरमासे आयोजिते रामनामिमेले तथा सन्तसमागमे मुख्यमंत्रीश्रीसायं आमन्त्रितवन्तः। मुख्यमंत्रीश्रीसायः आमन्त्रणस्य कृते महासभायाः पदाधिकारिणः प्रति आभारं व्यक्तवान्, तेषां च शुभकामनाः दत्तवन्।
अस्मिन् अवसरे अखिलभारतीयरामनामीमहासभायाः अध्यक्षा सेतबाईरामनामी, महासचिवः गुलारामरामनामी, तथा रामनामीसंप्रदायेन सम्बद्धाः अनेकसदस्याः अपि उपस्थिताः आसन्।
हिन्दुस्थान समाचार