Enter your Email Address to subscribe to our newsletters

उज्जैननगरम् , ३१ अक्टूबरमासः(हि.स.) मध्यप्रदेशराज्यस्य उज्जयिनीनगरे राष्ट्रीय–एकता–दिवसे शहीद–उद्यान–स्थले शुक्रवासरे ‘रन फॉर यूनिटी’ इत्यस्य आयोजनं कृतम्। कार्यक्रमं संबोध्य राज्यसभासदः बालयोगी उमेशनाथमहाराजः अवदत् यत् — सरदारवल्लभभाईपटेलः पुरुषः निर्भयतया श्रेष्ठतमानि कर्माणि कृतवान्।
महान् कर्मकर्तॄणां देशः सदा ऋणी भवति। तस्य प्रेरणया वयं सर्वे एकतया वसामः, सर्वेषां प्रति सद्भावं धारयेम, राष्ट्रविकासाय च उत्तमानि कर्माणि कुर्याम। ततः सः हरितध्वजं प्रदर्श्य ‘रन फॉर यूनिटी’ अग्रे प्रेषितवान्।
नगर–निगम–अध्यक्षा कलावतीयादवा अवदत् —“भारतस्य स्वतंत्रतायाम् अनेकैः महापुरुषैः आत्मनः बलिदानं दत्तम् अस्ति। परं सरदारपटेलस्य योगदानं अतुलनीयं आसीत्। तेषां प्रेरणया वयं सर्वे देशस्य एकता–अखण्डतेः रक्षणाय समरसभावेन कार्यं कुर्म।” तया धावनायां सहभागीभूतान् नागरिकान् प्रति एकताशपथः दत्तः।
विधानसभासदः अनिलजैन–कालुहेडा अपि उक्तवान् — “वयं सर्वे सरदारवल्लभभाईपटेलस्य पादचिह्नेषु गच्छेम।”
अस्मिन् अवसरे सञ्जय–अग्रवालः, जगदीश–पांचालः, प्रभुलाल–जाटवा, सन्वर–पटेलः, जनपदाधिकारी रौशनकुमार–सिंहः, आरक्षक–अधीक्षकः प्रदीप–शर्मा च उपस्थिताः आसन्।
“रन फॉर यूनिटी” मध्ये सहभागीभूताः युवक–युवतयः शहीद–उद्यानात् आरभ्य विभिन्न–मार्गैः गत्वा फव्वारा–चौरसस्थले पर्यन्तं धावितवन्तः। तत्र श्रीमती–यादवा सर्वेभ्यः पुनः राष्ट्रीय–एकता–दिवसस्य शपथं दत्तवती।
हिन्दुस्थान समाचार / अंशु गुप्ता