Enter your Email Address to subscribe to our newsletters

जम्मू, 31 अक्टुबरमासः (हि.स.)। भारतस्य लौहमनुः, राष्ट्रैक्यस्य च प्रबलः प्रतीकः सरदारवल्लभभाईपटेलस्य 150तमजयन्त्याः अवसरः आसीत्। तस्मिन् प्रसङ्गे जम्मूनगरे ‘सरदार@१५० एकता–मार्च’ इति भव्यः आयोजनः सम्पन्नः। एषा जनपदस्तरीया पदयात्रा मम युवा भारत (माय भारत) इत्यनेन, युवा–विषयक–क्रीडामन्त्रालयेन च भारत–सर्वकारस्य आश्रये, मण्डल–प्रशासन–जम्मोः सहयोगेन च आयोजिताऽभवत्।
मार्चं गुलशन–उद्यानात् आरभ्य डिवीज़नल्–कमिश्नर–जम्मू रमेशकुमारेन हरिध्वजां प्रदर्श्य प्रेषितम्। तस्मिन् अवसरे आई.जी.पी. भीमसेन–टूटी, डिप्टी–कमिश्नर डॉ. राकेश–मिन्हास, डी.आई.जी. शिवकुमार, ए.डी.सी. अनसूया–जम्वाल तथा मम युवा भारत जम्मू–काश्मीर–लद्दाखराज्य–निर्देशकः निसारअहमद–बट इत्यादयः उपस्थिताः आसन्। एकता–यात्रा गुलशन–उद्यानात् आरभ्य गुज्जर–नगर–सेतुं गत्वा हरिसिंह–उद्यानपर्यन्तं निष्पन्नः। अस्मिन् कार्यक्रमे 4,000 अधिकाः युवा–जनाः, छात्राः, एन.सी.सी.–कडेटाः, एन.एस.एस.–स्वयंसेवकाः, विद्यालय–बालकाः, जम्मू–काश्मीर–पुलिस् तथा बी.एस.एफ.–वाद्यदलः, अधिकारीणः, सामान्य–जनाश्च सहभागीभूताः।
यात्रायाः प्रवासकाले सर्वे प्रतिभागिनः राष्ट्रस्य एकता–अखण्डता–स्वाधीनतां च रक्षितुं संकल्पं कृतवन्तः। विद्यालय–छात्रैः जम्मूकाश्मीरकलासंस्कृति–भाषा–अकादम्याः कलाकारैश्च देशभक्तिरसपूर्णाः सांस्कृतिकाः प्रस्तुतय: प्रदर्शिताः। यात्रायाः काले विविधाः झाङ्क्यः अपि आकर्षण–केन्द्रं जाता: ये सरदार–पटेलस्य योगदानं राष्ट्रिय–एकतायाः च संदेशं जीवंत रूपेण प्रदर्शितवन्तः।
हिन्दुस्थान समाचार / अंशु गुप्ता