आगामीनि 50 वर्षाणि यावत् भाजपा एव देशस्य राजनीतौ अग्रणी वर्तिष्यते : मयंकेश्वर शरण सिंहः
अमेठी, 31 अक्टूबरमासः (हि.स.)।उत्तरप्रदेशसर्वकारस्य चिकित्साशिक्षा–स्वास्थ्य–परिवारकल्याणराज्यमन्त्रिणा मयंकेश्वरशरणसिंहेन उक्तं यत्“न केवलं २०२७ तमे वर्षे, अपितु आगामिपञ्चाशद्वर्षपर्यन्तं अपि भारतीयजनतापक्षः (भा.ज.पा.) एव देशस्य राजन्यधारायाम् अग्
बच्चों को पुरस्कार प्रदान करते हुए मंत्री जी


मीडिया से वार्ता करते हुए मंत्री मयंकेश्वर शरण सिंह


अमेठी, 31 अक्टूबरमासः (हि.स.)।उत्तरप्रदेशसर्वकारस्य चिकित्साशिक्षा–स्वास्थ्य–परिवारकल्याणराज्यमन्त्रिणा मयंकेश्वरशरणसिंहेन उक्तं यत्“न केवलं २०२७ तमे वर्षे, अपितु आगामिपञ्चाशद्वर्षपर्यन्तं अपि भारतीयजनतापक्षः (भा.ज.पा.) एव देशस्य राजन्यधारायाम् अग्रगण्यः भविष्यति।”

एतस्मिन् समये सः समाजवादीपक्षम् (सपा) तथा काँग्रेसम् इत्येतयोः प्रति तीव्रं प्रहारम् अकरोत्।

सरदारवल्लभभाइपटेलस्य १५०तमजयंती अवसरं प्रति अमेठी नगरे आयोजिते “रन् फॉर यूनिटी” नामके कार्यक्रमे राज्यः मन्त्री उपस्थितः। तत्र पत्रकारैः सह वार्तालापे सः अवदत्—“सपा-पक्षीयनेतारः अपि न जानन्ति यत् पी.डी.ए. इत्यस्य अर्थः कः। यदि भवन्तः तेषां कस्मिंश्चित् नेतारं पृच्छेयुः, सः ‘ए’ इत्यस्यापि अर्थं न वदेत्, यतः प्रतिद्वैमासिकं तस्य अर्थः परिवर्तते। पी.डी.ए. इत्यस्य न क्वापि स्थिरता अस्ति।”

काँग्रेसपक्षं प्रति प्रहारं कुर्वन् सः अवदत्—“राहुलगान्धिः अद्य भारतीयराजनीत्यां स्थानं न अवशिष्टवान्। सः केवलं पिकनिक् कृते आगच्छति, त्रिदिनानि चत्वारि वा राजनीतिं करोति, ततः विश्रान्तिं गच्छति। देशस्य जनता तम् अधुना न गम्भीरतया गृह्णाति।यदा तु भा.ज.पा. पक्षस्य प्रत्येकः कार्यकर्ता सम्पूर्णनिष्ठया जनसेवायां प्रवृत्तः अस्ति। अस्य पक्षस्य संगठनं दृढम्, जनसामान्ये च तस्य विश्वासः अटूटः।”

सरदारपटेलं प्रति श्रद्धाञ्जलिं अर्पयन् मन्त्री अवदत्—“वयं सर्वे अद्य तं लौहपुरुषं नमामः, येन ५५० अधिकाः रियासताः एकीकृत्य भारतम् अखण्डरूपेण स्थापितम्।यत् भारतमानचित्रं वयं अद्य पश्यामः, तत् तस्य दूरदृष्टेः दृढनिश्चयस्य च फलम्।जम्मूकश्मीरं नाम एकमेव राज्यं यत् नेहरुणा स्वहस्तगतं कृतम्। यदि तत् अपि सरदारपटेलाय प्रदत्तं स्यात्, तदा तस्य स्थिति: अद्य अत्युत्तमा स्यात्।

परन्तु अद्य गर्वस्य विषयः अस्ति यत् सम्पूर्णं भारतम् एकराष्ट्ररूपेण स्थितम्, देशे च एकताभावः व्याप्यते।यद्यपि सरदारपटेलः कदाचित् काँग्रेसपक्षे आसीत्, तथापि तेन पक्षेन तस्मै यथोचितं सम्मानं न प्रदत्तम्।

अद्य प्रधानमनत्रिणो नरेन्द्रमोदिनो नेतृत्त्वेन सम्पूर्णं राष्ट्रं सरदारपटेलजयंतीं राष्ट्रियैकतादिवस इति रूपेण आचरति।कश्मीरात् कन्याकुमार्याः यावत् देशः एकः अस्ति — एषः एव सरदारपटेलस्य स्वप्नस्य साकारो भारतम् इति।”

---------------

हिन्दुस्थान समाचार