देशस्य छविं धूमिलं कर्तृः राहुलस्य वक्तव्यम्- भाजपा
नवदिल्ली, 4 अक्टूबरमासः (हि.स.)।भारतीयजनतापक्षेण भारतस्य लोकतान्त्रिकस्थितिं प्रति काङ्ग्रेस्-नेता राहुलगान्धिनाऽयोजितायां कोलम्बियाराष्ट्रे उक्तां टिप्पणिं राष्ट्रस्य अन्ताराष्ट्रियमञ्चे प्रतिमां कलुषयन्तीं इति निर्दिष्टम्। तथाच काङ्ग्रेस्-पक्षः तस्
केसी वेणुगोपाल


नवदिल्ली, 4 अक्टूबरमासः (हि.स.)।भारतीयजनतापक्षेण भारतस्य लोकतान्त्रिकस्थितिं प्रति काङ्ग्रेस्-नेता राहुलगान्धिनाऽयोजितायां कोलम्बियाराष्ट्रे उक्तां टिप्पणिं राष्ट्रस्य अन्ताराष्ट्रियमञ्चे प्रतिमां कलुषयन्तीं इति निर्दिष्टम्। तथाच काङ्ग्रेस्-पक्षः तस्य वक्तव्यस्य समर्थनं कृत्वा केन्द्रसरकारं प्रति आरोपं कृतवान्।

काङ्ग्रेस्-महासचिवः के.सी.वेणुगोपालः अद्य X लेखे अवदत् — “भा.ज.पा.दलस्य स्वभाव एव अयं यत् स्वकीयाः विफलताः काङ्ग्रेसं प्रति आरोपयति, येन भारतं अन्ताराष्ट्रियस्तरे लज्जां प्राप्नोति।” सः अवदत् — “एषा वस्तुस्थितिः यत्र कुत्र वा उक्ता, कोलम्बियायाम् वा कानपुरे वा, तत्र समानैव। भारतसरकारा अस्माकं अर्थव्यवस्थायाः विशालं सामर्थ्यं उपयुज्य लाभं न साधयति, अपि तु जनसांख्यिकलाभांशं विनाशयति।

‘अस्माकं लोकतान्त्रिकव्यवस्थायाः अपहरणम्’ इति विषयः एव सः यः अस्मान् विश्वस्तरे बदनामं कृतवान्, तस्य श्रेयः भा.ज.पा.दलेन एव गन्तव्यम्।”

वेणुगोपालेन एतदपि उक्तं यत् यदि भा.ज.पा.दलम् अस्मिन् विषये वास्तवमेव चिन्तितं भवति, तर्हि तेन तस्य (राहुलस्य) वक्तव्येषु मनः स्थाप्य २०१४ तः आरभ्य ये दोषाः सः उद्घाटितवान्, तेषां परिमोचनार्थं उपायाः स्वीकर्तव्या इति।

उल्लेखनीयं यत् राहुलगान्धिः सम्प्रति दक्षिणामेरिकायाः चत्वारि राष्ट्राणि — कोलम्बिया, ब्राज़ील्, पेरू, चिली — एतानि परिभ्रमन् अस्ति। तेन तत्र राजनैतिकनेतृभिः, विद्यार्थिभिः, व्यापारीवर्गेण च सह भेंटाः कृताः। सः अधुना पेरू-राजधानी लीमा इत्यत्र अस्ति, यत्र तस्य स्वागतं पारम्परिकनृत्यसंगीताभ्यां कृतम्।

कोलम्बियायाः मेडेलिन–नगरे स्थितायां EIA University इत्यस्मिन् ‘The Future is Today’ नाम्नि सेमिनारे सः भाषणं कृत्वा अवदत् —“भारतदेशे अद्यतनसमये लोकतान्त्रिकसंरचनायां सम्पूर्णः आक्रमणः प्रवर्तते, यः राष्ट्रस्य महान् संकटः अस्ति। भारतदेशे अधुना भ्रष्टाचारः अतीव केन्द्रीकृतः जातः, चत्वारः वा पञ्च वा महान्तः व्यापारी सम्पूर्णस्य आर्थिकतन्त्रस्य नियन्त्रणं वहन्ति।”

---------------

हिन्दुस्थान समाचार