Enter your Email Address to subscribe to our newsletters
मीरजापुरम्, 4 अक्टूबरमासः (हि.स.)। उत्तरप्रदेशराज्यस्य मीरजापुरजिले गतचतुर्विंशतिघण्टाभ्यः निरन्तरं वर्षमाणवृष्टेः परिणामेन अहरौरा–जरगो–जलाशययोः जलस्तरः क्षमातिक्रमं गतः अस्ति। स्थितिं नियन्त्रणं कर्तुं शनिवासरे प्रभाते अहरौरा–जलाशयस्य अष्टद्वाराणि द्विद्विफुटपर्यन्तं उद्घाटितानि। तेन मार्गेण प्रायः चतुर्सहस्र–क्यूसेक् प्रति–सेकण्ड् वेगेन जलस्य निष्क्रमणं क्रियते।
अहरौरा–बन्धस्य अधिकतमा क्षमता ३६० फुट् अस्ति, यदा शनिवासरे प्रातः अष्टवादने पर्यन्तं जलस्तरः ३६०.०७ फुट् इति अभिलेखितः। वर्धमानं जलस्तरं दृष्ट्वा अन्यदपि द्वारम् उद्घाटयितुं सम्भावना व्यक्ता। तस्मात् जमालपुरक्षेत्रे बाढानुरूपा स्थिति: उत्पन्ना।
तदन्यत्र जरगो–जलाशयस्य अपि जलस्तरः ३२० फुट् इति निश्चितक्षमताम् अतिक्रम्य गतः। शनिवासरे प्रातः अष्टवादने जलस्तरः ३२०.६ फुट् इति अभिलेखितः। बन्धस्य कनिष्ठ अभियन्ता अजीत् पटेल् इत्यनेन उक्तं यत् बन्धस्य द्वौ द्वारौ षड्–षड् अङ्गुलपर्यन्तं उद्घाट्य प्रायः एकसहस्रचतुर्शत–क्यूसेक् प्रति–सेकण्ड् वेगेन जलं विसर्ज्यते।
प्रशासनने उभयोः जलाशयोः अधस्तन–प्रदेशेषु वसत: जनान् सचेतनं कृत्वा सुरक्षितस्थानानि प्रति गन्तुं परामर्शः प्रदत्तः अस्ति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता