Enter your Email Address to subscribe to our newsletters
रांची, 4 अक्टूबरमासः (हि.स.)।राज्यसरकारस्य मार्गदर्शनात्, जिलाप्रशासनस्य च सक्रियतया दुर्गापूजा भक्तिमया, सुरक्षितया, सुव्यवस्थितया च सम्पन्ना। पूजामण्डपेभ्यः आरभ्य मूर्तिविसर्जनपर्यन्तं सर्वत्र प्रशासनस्य विशेषव्यवस्थाः कृताः आसन्। रांची-जिलाप्रशासनस्य पक्षतः शनिवासरे प्रेस-विज्ञप्तिः प्रकाशिता, यस्याम् एषा सम्पूर्णसूचना दीया।
कृताः व्यवस्थाः —
पूजामण्डपेषु प्रमुखस्थलेषु च पर्याप्तः पुलिसबलः मजिस्ट्रेटाः च नियुक्ताः आसन्।
सीसीटीवी-संविधानैः सर्वत्र सततम् निरीक्षणं कृतम्, यत् कापि गड़बड़ी न भवेत्।
सर्वेषु मण्डपेषु विद्युत्, जल, स्वच्छता च सुयोजितं कृतम्।
जनसमूहनियन्त्रणार्थं विशेषतया व्यवस्था कृताभूत्, यत् श्रद्धालवः सुलभं दर्शनं कुर्वन्तु।
यातायातव्यवस्थायामपि पूर्णं ध्यानं दत्तम्।
मूर्तिविसर्जनकाले अपि पुलिसबलं मजिस्ट्रेटाश्च तत्र उपस्थिताः आसन्। विसर्जनप्रक्रिया पूर्णतया शान्तिपूर्वकं सुव्यवस्थितरूपेण सम्पन्ना।
पूजास्थलेषु तेषां च समीपप्रदेशेषु स्वच्छतायाः अभियानं च सञ्चालितम्।
जिलाप्रशासनस्य आभारप्रकाशनम् —
जिलाप्रशासनम् अस्य सफलस्य आयोजनस्य श्रेयः सर्वासु पूजासमितिषु, सर्वधर्मकेन्द्रीयशान्तिसमितौ, माध्यमेषु, समाजस्य बुद्धिजीविषु च अर्पितवान्। प्रशासनम् उक्तवान्— एषां सहयोगं विना एषः उत्सवः सफलः न स्यात्।
तथापि प्रशासनम् उक्तवान् यत् दुर्गापूजा अस्माकं एकतायाः सामुदायिकभावनायाश्च प्रतीकः अस्ति। सर्वेषां सहयोगेन एषः पर्वः भक्तिभावेन, सुरक्षितरूपेण, सुव्यवस्थिततया च सम्पन्नः। आगामिकालेऽपि एतादृशैः सामूहिकप्रयत्नैः उत्सवानां आयोजनं अधिकं
उत्कृष्टं भविष्यति।
---------------
हिन्दुस्थान समाचार