Enter your Email Address to subscribe to our newsletters
नवदेहली, 04 अक् टूबरमासः (हि.स)। केन्द्रीयः वाणिज्यऔद्योगमन्त्री पीयूषगोयलः सिंगापुरनिवेशकान् प्रति आह्वानं कृतवान् यत् ते आर्थिकविकासक्षेत्रे भारतदेशेन उपस्थापितान् अवसरान् परिशीलयन्तु इति।
केन्द्रीयवाणिज्यमन्त्रिणा शनिवासरे सिंगापुरे “भारत–सिंगापुर विकासाय सहाभागिता” इति विषयेन निवेशकैः सह आयोजिते उपवेशनसभायाम् उपोद्घातं दत्तम्। सः अवदत्— “अहं सर्वान् प्रति आग्रहं करोमि यत् भवन्तः भारतदेशेन प्रदत्तानां अवसराणां विस्तृतिपरिमाणं निरीक्षन्ताम्।”
गोयलमहाभागेन स्वस्य भाषणे भारतस्य विपणिसामर्थ्यम्, कुशलकार्यबलं, पूंजी, अनुसन्धान–विकासं च स्थिरतायाश्च क्षेत्रेषु विद्यमानानां सम्भावनानां विषये प्रकाशः कृतः। तेन तीव्रम् आर्थिकवृद्धिं प्रतिपाद्य भारतस्य त्रयः विशिष्टगुणाः निर्दिष्टाः— विपण्याः आकारः, अवसराः, कार्यबलस्य कौशलं च।
वाणिज्यमन्त्रिणा उक्तम्— “वयं संयुक्तरूपेण कर्म कर्तुं, भारत–सिंगापुर व्यापारपरिषदा आरब्धानि विविधानि उपक्रमाणि शीघ्रं प्रवर्तयितुं च चिन्तयामः।” तेन उक्तं यत् सार्वजनिक–निजीक्षेत्रयोः अधिकारीणः अहर्निशं प्रयतमानाः सन्ति, येन उभयोः राष्ट्रयोः सम्बन्धाः शीघ्रं प्रवर्धिष्यन्ते इति।
गोयलः अवदत्— “मम मतम् अस्ति यत् संयुक्तरूपेण अस्माभिः नवानि सीमाप्रदेशानि अतिक्रान्तव्यानि। पूंजीक्षेत्रे, अनुसन्धानविकासे, मानवसंसाधने, कौशले, प्रतिभायां वा शिक्षाक्षेत्रे वा — भारतं सिंगापुरं च सर्वेषु क्षेत्रेषु संयुक्तप्रयासेन अग्रे गन्तुं प्रतिबद्धे स्तः।”
पूर्वं वाणिज्यमन्त्रिणा एक्सपोस्ट् इति सञ्चारमाध्यमे उद्घोषितम् यत् ब्लैकस्टोन–सिंगापुराध्यक्षेन गौतमबनर्जी इत्यनेन सह सः अभिसमागतम्। तयोः भेट्यां विनिर्माणसंबद्धं बुनियादीढाँचा (आधारसंरचना) मध्ये दीर्घकालिकपूंजीसम्भावनाः, आपूर्तिशृङ्खलानां सुदृढीकरणं च विषये चर्चाः अभवन्।
तथा नोमुरा–एशियापैसिफिक्–होल्डिंग्स्–संस्थानस्य मुख्यकार्यपालकाधिकारिणा नाग्शङ्करनारायणेन नेतृत्त्वे आगतेन प्रतिनिधिमण्डलेन सह अपि सः अभिसमागतम्। तत्र भारतकेन्द्रितनिवेशस्य संवर्द्धनस्य अवसराः, वैश्विकनिवेशकानां कृते भारतदेशेन प्रदत्तानि व्यापकानि अवसराणि च विषये विचारविनिमयः कृतः।
-------------
हिन्दुस्थान समाचार / अंशु गुप्ता