Enter your Email Address to subscribe to our newsletters
नव दिल्ली, 4 अक्टूबरमासः (हि.स.)।प्रधानमन्त्रिणा नरेन्द्रमोदिना गाजाक्षेत्रे शान्तिस्थापनायाः प्रयत्नेषु अमेरिकादेशस्य राष्ट्रपतिः डोनाल्ड् ट्रम्प् इत्यस्य नेतृत्वस्य प्रशंसा कृता। तेन उक्तं यत् बन्धकानां विमोचनस्य संकेताः वर्तमानमानवीय–कूटनीतिकप्रयत्नानां दिशि एकः महत्त्वपूर्णं चरणम् इति।
प्रधानमन्त्रिणा अद्य सामाजिकमाध्यमे X इत्यस्मिन् स्वलेखेन उक्तम्
“गाजाक्षेत्रे शान्तिप्रयत्नेषु निर्णायकस्य प्रगतेः निमित्तं वयं राष्ट्रपति ट्रम्प् इत्यस्य नेतृत्वं स्वागतयामः। बन्धकविमोचनस्य संकेताः एकं महत्वपूर्णं चरणं द्योतयन्ति। भारतः स्थाय्याः न्याययुक्तायाः च शान्तेः दिशि सर्वान् प्रयत्नान् दृढतया समर्थनं करिष्यति।
प्रधानमन्त्री अवदत् यत् भारतः अस्मिन् क्षेत्रे दीर्घकालिकां न्यायसंगतां च शान्तिं स्थापयितुं याः याः सकारात्मकाः पहलाः सन्ति, तासां सर्वासां समर्थनाय निश्चलप्रतिबद्धः अस्ति।
---------------
हिन्दुस्थान समाचार