Enter your Email Address to subscribe to our newsletters
टाेक्याेनगरम्, 4 अक्टूबरमासः (हि.स.)। जापानदेशस्य पूर्वा आर्थिकसुरक्षामन्त्री सनाए ताकैचि शनिवासरे सत्तारूढस्य उदारजनतान्त्रिकदलस्य (एलडीपी) प्रथमा स्त्री अध्यक्ष निर्वृता जाता, एवं तेन तस्या: राष्ट्रस्य प्रथमा स्त्री प्रधानमन्त्री भवितुम् मार्गः सुस्पष्टः अभवत्।
वार्तापत्रे जापान टाइम्स इति प्रकाशिते समाचारानुसारं सा कृषिमन्त्री शिंजिरो कोइज़ुमिं निर्णायकस्य द्वितीयपर्यायस्य मतदानसमये विजितवती। कोइज़ुमिः पूर्वप्रधानमन्त्री जुनिचिरो कोइज़ुमेः पुत्रः अस्ति। एषः निर्वाचनः पूर्वप्रधानमन्त्री शिगेरु इशिबा इत्यस्य त्यागपत्रानन्तरं जातः, यस्य सरकार संसद्-मध्ये बहुमतं नष्टवती आसीत्।
पञ्चसु दलनेतृत्वदाविदारसु कस्यापि प्रथमचरणे बहुमतं न लब्धं, अतः द्वितीयचरणे ताकैच्याः १८५ मतानि प्राप्तानि, येन सा कोइज़ुमेः १५६ मतान् विजितवती।
ताकैच्यै सांसदानां १४९ मतानि, च एलडीपी सदस्याणां ३६ मतानि प्राप्तानि, यानि कोइज़ुमेः सांसदानां १४५ तथा प्रादेशिकशाखानां (प्रीफेक्चुरल चैप्टर) ११ मतानामधिकानि आसन्। दलस्य नेतृत्वपदं प्रति एषा ताकैच्याः तृतीया प्रयासः आसीत्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता