Enter your Email Address to subscribe to our newsletters
-ऑस्ट्रेलिया प्रवासाय भारतीयदलस्य उद्घोषणा
नवदेहली, 04 अक्टूबरमासः (हि.स.)। शुभमनः गिल्लः रोहित् शर्मायाः स्थाने भारतीयस्य क्रिकेट् दलस्य नवः एकदिवसीय-नायकः नियुक्तः अभवत्। सः १९ अक्तूबरतः प्रारभ्यमाणायां त्रि-मैचीयायां ऑस्ट्रेलिया-यात्रायां दलस्य नेतृत्वं करिष्यति। ऑस्ट्रेलिया-विरुद्ध एकदिवसीय-श्रृङ्खलायां रोहितः शर्मा, विराटः कोहली च पुनः बल्लेबलरूपेण दलस्य अङ्गीकृतौ स्तः। एषा तयोः मार्च् २०२५ तमे चॅम्पियन्स् ट्रॉफीपर्यन्तं प्रथमं भारतस्य प्रतिनिधित्वं भविष्यति।
२६ वर्षीयः गिल्लः अधुना परीक्षणे च एकदिवसीये च कप्तानः, टी–२० क्रीडासमूहे उपकप्तानः च सन् सर्वेषु प्रारूपेषु नेतृत्व-भूमिकां वहति।
३८ वर्षीयः रोहितः शर्मा वर्षे २०२१ दिसम्बरमासात् भारतस्य पूर्णकालिकः एकदिवसीय-कप्तानः आसीत्। सः ५६ एकदिवसीयेषु भारतं नेतृत्वं कृतवान्, तेषु ४२ विजयानि, १२ पराजयानि, १ समापन्नं, १ निरपरिणामकं च अभवन्। तेन कार्यवाहक-कप्तानरूपेण २०१८ तमस्य एशिया-कप्-विजयं प्राप्तं, पुनः २०२३ तमे वर्षे पूर्णकालिक-कप्तानरूपेण भारतं विजयी कृतवान्। तस्य नेतृत्वे भारतम् २०२३ तमे विश्वकप्-फाइनलं प्राप्तम्। तस्य कार्यकालः चॅम्पियन्स् ट्रॉफी २०२५ इत्यस्य विजये समाप्तः अभवत्।
इयं ग्रीष्मे इंग्लैण्ड्-यात्रायाः पूर्वं मईमासे रोहितेन परीक्षणप्रारूपात् संन्यासं कृतवता, गिल्लः भारतस्य परीक्षण-नायकः अपि अभवत्। परीक्षण-नायकरूपेण तस्य प्रथमायां श्रृङ्खलायां भारतम् इंग्लैण्ड्-विरुद्धं २–२ परिणामं साधितम्। तेन ७५.४० औसत्-सङ्ख्यया ७५४ धावनानि कृत्वा सर्वोच्च-धावकः अभवत्।
रोहितः कोहली च परीक्षण-टी२० अन्तर्राष्ट्रीयक्रीडाभ्यः संन्यासं कृतवन्तौ। अतः ऑस्ट्रेलिया-यात्रायां सप्तमासेभ्यः अधिकं कालं पश्चात् तयोः प्रथमं अन्तर्राष्ट्रीय-प्रदर्शनं भविष्यति। तयोः अनन्तरं दक्षिण–आफ्रिका-विरुद्धम् (नवम्बर–दिसम्बर) तथा न्यूज़ीलैण्ड्-विरुद्धम् (जनवरी) त्रि-एकदिवसीय-श्रृङ्खलासु पुनः भारताय खेलनं भविष्यति।
एतैः सह जसप्रीत् बुमराह, रवीन्द्रः जडेजा, ऋषभः पन्तः, हार्दिकः पाण्ड्यः च ऑस्ट्रेलिया-विरुद्ध-श्रृङ्खलायां न खेलिष्यन्ति। हार्दिकः, पन्तः च आहतत्वात् बहिष्कृतौ, बुमराह विश्रान्तये नियुक्तः।
टी–२० श्रृङ्खलायाः अपि घोषणां कृतवन्तः। सूर्यकुमारः यादवः नायकः स्थास्यति। जसप्रीत् बुमराहस्य टी–२०-दले पुनरागमनं जातम्, नितीशः कुमारः रेड्डी अपि दलं प्रविष्टः।
भारतस्य यात्रानिर्धारणम् —
१९, २३, २५ अक्तूबरः – त्रयः एकदिवसीयाः ऑस्ट्रेलियायाम्।
२९ अक्तूबरात् ८ नवम्बरपर्यन्तम् – पञ्च टी–२० क्रीडाः।
भारतीयएकदिवसीयदलः
शुभमनगिलः (नायकः), रोहितशर्मा, विराटकोहली, श्रेयस अय्यर (उपनायकः), अक्षरपटेलः, के. एल. राहुल (विकेटकीपर), ध्रुवजुरेलः, यशस्वीजयसवालः, नितीशकुमाररेड्डी, वॉशिंगटनसुंदरः कुलदीपयादवः, हर्षितराणा, मोहम्मदसिराजः, अर्शदीपः सिंहः, प्रसिद्धकृष्णः।
भारतीय टी–२० दलः
सूर्यकुमारयादवः (नायकः), अभिषेकशर्मा, शुभमनगिलः (उपनायकः), तिलकवर्मा, नितीशकुमाररेड्डी, शिवमदुबे, अक्षरपटेलः, जितेशशर्मा (विकेटकीपर), वरुणचक्रवर्ती, जसप्रीतबुमराहः, अर्शदीपसिंहः, कुलदीपयादवः, हर्षितराणा, संजूसैमसनः (विकेटकीपर), रिंकूसिंहः, वाशिंगटनसुंदरः।
----------------------
हिन्दुस्थान समाचार / अंशु गुप्ता