महर्षि वाल्मीकि जयंती 7 अक्टूबर दिनाङ्के उत्तर प्रदेशे वर्तिष्यते सार्वजनिकोऽवकाशः
लखनऊ, 4 अक्टूबरमासः (हि.स.)।उत्तरप्रदेश्-सर्वकारेण महर्षि वाल्मीकि-जयंती-दिने, अर्थात् 7 अक्टूबर्-मंगलवासरे, सार्वजनिकः अवकाशः घोषितः। अस्मिन दिने सर्वे विद्यालयाः, महाविद्यालयाः च सर्वकारी कार्यालयाः च पिहिता भविष्यन्ति। अद्य सर्वकारेण अस्य विषयस्य
आदेश पत्र की काॅपी


लखनऊ, 4 अक्टूबरमासः (हि.स.)।उत्तरप्रदेश्-सर्वकारेण महर्षि वाल्मीकि-जयंती-दिने, अर्थात् 7 अक्टूबर्-मंगलवासरे, सार्वजनिकः अवकाशः घोषितः। अस्मिन दिने सर्वे विद्यालयाः, महाविद्यालयाः च सर्वकारी कार्यालयाः च पिहिता भविष्यन्ति। अद्य सर्वकारेण अस्य विषयस्य आदेशः प्रदत्तः।

आदेशे उक्तं — “7 अक्टूबर् (मंगलवासरे) महर्षि वाल्मीकि-जयंतीम् उपलक्ष्ये सार्वजनिकः अवकाशः घोष्यते। राज्ये सर्वे सरकारी-निजी विद्यालयाः, महाविद्यालयाः, बाङ्काः तथा सर्वकारीकार्यालयाः पिहिता भविष्यन्ति।स्मरणीयम् यत् भारतीय वाल्मीकि-धर्म-समाजस्य जनैः महर्षि वाल्मीकि-जयंतीदिनं सार्वजनिक-अवकाशार्थं सरकारं प्रति याचना कृतम्। ते सार्वजनिक-अवकाशाय अनेकवारं शासनं ज्ञापनैः सूचितवन्तः। वाल्मीकि-समाजेन उक्तम् यत् पूर्वमेव अस्य दिनस्य सार्वजनिक-अवकाशः आसीत्, किन्तु अनन्तरं तत् निरस्तंकृतम्।

---------------

हिन्दुस्थान समाचार