अमित शाहश्छत्तीसगढ़े मुख्यमंत्री ग्रामीण बस सेवायाः अकरोत् शुभारंभं, महतारी वंदनस्य 20तमो राशिः प्रेषितः
जगदलपुरम्, 04 अक्टूबरमासः (हि.स.)।केंद्रीयगृहमन्त्री अमितः शाहः स्वस्य द्विदिवसीय-छत्तीसगढ़-प्रवासे शनिवासरे बस्तर-दशहरा-कार्यक्रमे सम्मिलितः अभवत्। ततः अनन्तरं सः ‘महतारी-वन्दन-योजना’ इत्यस्य विंशतितमं किस्तम् उद्घाट्य 606 कोट्यधिकरूप्यकाणि राज्यस्य
बस सेवा का किया शुभारंभ, महतारी वंदन योजना की 20वीं किस्त की जारी


जगदलपुरम्, 04 अक्टूबरमासः (हि.स.)।केंद्रीयगृहमन्त्री अमितः शाहः स्वस्य द्विदिवसीय-छत्तीसगढ़-प्रवासे शनिवासरे बस्तर-दशहरा-कार्यक्रमे सम्मिलितः अभवत्। ततः अनन्तरं सः ‘महतारी-वन्दन-योजना’ इत्यस्य विंशतितमं किस्तम् उद्घाट्य 606 कोट्यधिकरूप्यकाणि राज्यस्य नारीणां कोषेषु पिंचनोदनेन अंतर्न्यस्यत्। ततः सः ‘मुख्यमंत्री-ग्रामीण-बस-सेवा’ नाम योजनां हरीध्वजेन प्रारभत्, येन 250 ग्रामाणि मुख्यालयेन संयोगं प्राप्स्यन्ति।

गृहमन्त्री शाहः स्वस्य बस्तर-यात्रायाः आरम्भं मातरं दन्तेश्वरीं देवीं सम्पूज्य, दर्शनं कृत्वा च अकरोत्। ततः सः बस्तर-दशहरे मुरिया-दरबार-नाम्नि परम्परारस्मौ भागं गृहीत्वा तत्र मांझी, चालकी, गायता इत्यादिभिः परम्पराप्रतिनिधिभिः सह मिलितवान्।

अनन्तरं लालबाग-क्रीडांगणे आयोज्यमाने स्वदेशी-मेले सः स्वसङ्गोष्ठ्याः पूर्वं ‘महतारी-वन्दन-योजना’-नाम्नः विंशतितमं किस्तम् उद्घाट्य उक्तवान् यत् — “एषा योजना छत्तीसगढ़स्य मातृशक्तेः सशक्तीकरणे एकः क्रान्तिकारकः प्रयासः अस्ति।”

एतस्मिन् अवसरे गृहमन्त्री अमितः शाहः उक्तवान् यत् ‘मुख्यमंत्री-ग्रामीण-बस-सेवा’ योजनया ग्राम्यप्रदेशेषु आवागमनं सुलभं भविष्यति, विकासस्य गमनवेगः अपि वर्धिष्यते इति।

---------------

हिन्दुस्थान समाचार