Enter your Email Address to subscribe to our newsletters
देहरादूनम्, 5 अक्टूबरमासः (हि.स.)।
जनपदः पौड़ी वरिष्ठः पुलिस् अधीक्षकः लोकेश्वरः सिंहः संयुक्तराष्ट्रेण सम्बद्धे एके अन्ताराष्ट्रियायां संस्थायां चयनितः। अस्मिन संस्थायाम् चयनाय प्रतियोगितात्मक-प्रक्रियया लोकेश्वरः सिंहः अर्हतः। अस्मिन चयनप्रक्रियायाम् विश्वस्य योग्य-अधिकारीणां मध्ये चयनः क्रियते।
आईपीएसः लोकेश्वरः सिंहः २०१४ बैच्-भारतीय-पुलिस-सेवायाः अधिकारी अस्ति। अनेन विगत-११ वर्षेषु उत्तराखण्ड-पुलिस् मध्ये विविध-प्रमुख-पदेषु कर्म कृत्वा राज्यस्य कानूनव्यवस्था तथा जनसुरक्षा सुदृढीकरणे महत्वपूर्णं योगदानम् अकृतम्। सः हरिद्वार, देहरादून, बागेश्वर, चम्पावत, पिथौरागढ़ जिलेषु उल्लेखनीयसेवां प्रदत्तवान्, वर्तमानकाले च पौड़ी-जनपदस्य पुलिस्-व्यवस्थायाः नेतृत्वं कुर्वन् अस्ति।
अद्य तेन नवीन-अन्ताराष्ट्रिय-भूमिकायाम् संस्थागत-अखंडता, शान्ति-स्थापना, सतत-विकास इत्यादीनां वैश्विक-लक्ष्यानां संवर्धने योगदानं दातुं भविष्यति। तस्य नियुक्तिः केवलं व्यक्तिगत-सिद्धिः न, अपि तु भारतस्य च उत्तराखण्डस्य च गौरवस्य अवसरः। अस्य परिणामतः भारतस्य प्रतिनिधित्वम् अन्ताराष्ट्रिय-स्तरे च दृढं भविष्यति।
आईपीएसः लोकेश्वरः सिंहः शीघ्रं पुलिस्-मुख्यालयं तथा राज्य-सरकारं आवश्यक-अनुमोदनार्थं आवेदनं प्रस्तुतं करिष्यति। अनुमोदनं लब्ध्वा सः उत्तराखण्ड-कैडरात् कार्यमुक्तः भवित्वा अस्मिन अन्ताराष्ट्रियायां संस्थायां नवीनं दायित्वं ग्रहिष्यति।
लोकेश्वरः सिंहः उक्तवान् – उत्तराखण्डे कार्यकालः अतीव सुन्दरः आसीत्, यं सः कदापि विस्मर्तुं न शक्नोति।
---
हिन्दुस्थान समाचार