Enter your Email Address to subscribe to our newsletters
उज्जैनम्, 5 अक्टूबरमासः (हि.स.)।मध्यप्रदेशराज्यस्य उज्जयिन्यां भारतस्य वरिष्ठक्रीडकः शिखरधवनः रविवासरस्य प्रातःकाले श्रीमहाकालेश्वरमन्दिरे आयोजितायां भस्मआरत्यां सहभागी भूत्वा भगवानं श्रीमहाकालेश्वरं दृष्ट्वा आशीर्वादं प्राप्तवान्।
अस्मिन् अवसरे श्रीमहाकालेश्वरमन्दिरप्रबन्धसमित्याः पक्षतः सहायकप्रशासकः आशीषफलवाडिया इत्यनेन तस्य विधिवत् सत्कारः कृतः।
माध्यमैः सह संवादे शिखरधवनः उक्तवान् — “अद्य अहं अत्यन्तं भावविभोरः अस्मि। बाबा महाकालस्य अनुग्रहात् एव मम क्रीडाजीवनं एतावत् उत्कर्षं प्राप्तम्। तेषामेव आशीर्वादः अस्ति। यदा यदा मम अन्तःकरणे इच्छा उत्पद्यते, तदा तदा बाबा महाकालः स्वयमेव मां आह्वयन्ति।
---------------
हिन्दुस्थान समाचार