Enter your Email Address to subscribe to our newsletters
लखनऊ, 5 अक्टूबरमासः (हि.स.)।उत्तरप्रदेशस्य सहकारितामन्त्री जे०पी०एस० राठौरः रविवासरे सहकारभारत्याः प्रादेशिकं बी–पैक्स् सम्मेलनं दीपप्रज्वलनेन उदघाटयत्। तस्मिन् अवसरेऽस्मिन् सहकारभारत्याः राष्ट्रियाध्यक्षः डॉ॰ उदयजोशी, राष्ट्रियोपाध्यक्षः सुनीलकुमारगुप्तः, प्रादेशाध्यक्षः डॉ॰ अरुणकुमारसिंह च उपस्थिताः आसन्। मंचस्थाः अतिथयः तस्मिन् अवसरस्मिन् सहकारभारत्याः पत्रिकायाः विमोचनं कृतवन्तः।सम्मेलनं सम्बोध्य सहकारितामन्त्री जे०पी०एस० राठौरः अवदत् यत् प्रदेशे सहकारितामहाविद्यालयः उद्घाट्यिष्यते, शासनस्तरे तस्य प्रक्रिया वर्तमानास्ति इति। सः उक्तवान् यत् पूर्वं सहकारितासंस्थासु भ्रष्टाचारः चरमावस्थां प्राप्तः आसीत्। मन्त्री अवदत् यत् सहकारिताक्षेत्रे कार्यं कुर्वन् सहकारभारती नाम अशासकीयसंघटनम् अस्ति। सः संस्थानां प्रतिनिधिभ्यः सहकारभारत्या सह कार्यं कर्तुम् आह्वानं कृतवान्।
---------------
हिन्दुस्थान समाचार