आईआईटी रुड़की मध्ये अन्ताराष्ट्रियजलविज्ञानसंघस्य द्वादशमी वैज्ञानिकसभा उद्घाटिता
हरिद्वारम्, 6 अक्टूबरमासः (हि.स.)। भारतीयप्रौद्योगिकी–संस्थानरुड़कीमध्ये सोमवारे अन्ताराष्ट्रियजलविज्ञानसंघस्य (आई.ए.एच.एस्.) द्वादशमी वैज्ञानिकसभा उत्तराखण्डस्य मुख्यसचिवेन आनन्दवर्धनेन उद्घाटिता। सप्ताहपर्यन्तं प्रवर्तमाने अस्मिन् कार्यक्रमे ४९ र
जल विज्ञान संघ कांफ्रेंस


हरिद्वारम्, 6 अक्टूबरमासः (हि.स.)। भारतीयप्रौद्योगिकी–संस्थानरुड़कीमध्ये सोमवारे अन्ताराष्ट्रियजलविज्ञानसंघस्य (आई.ए.एच.एस्.) द्वादशमी वैज्ञानिकसभा उत्तराखण्डस्य मुख्यसचिवेन आनन्दवर्धनेन उद्घाटिता। सप्ताहपर्यन्तं प्रवर्तमाने अस्मिन् कार्यक्रमे ४९ राष्ट्रेभ्यः ६२७ाधिकाः प्रतिभागिनः, ६८२ वैज्ञानिकाश्च सम्मिलिताः सन्ति। अस्यां सम्मेलनसभायां जलविज्ञान–सम्बद्धाः नवान्वेषणाः तथा जलवायु–परिवर्तनविषये चिन्तनं चर्चाऽपि क्रियते।

अस्मिन् अवसरे उत्तराखण्ड–मुख्यसचिवः आनन्दवर्धनः जलविज्ञान–अनुसन्धानस्य तस्य च सामाजिक–प्रयोजनस्य प्रगत्यर्थं आई.आई.टी.–रुड़की तथा आई.ए.एच.एस्.–संघस्य वैश्विक–योगदानं प्रशंस्य उक्तवान् यत् जलविज्ञानं जलवायुपरिवर्तनप्रतिरोधाय, आपद्–संकटम् न्यूनिकीकरणाय, सतत–विकासाय च अत्यन्तं महत्त्वपूर्णम् अस्ति।

उद्घाटन–समारोहे आई.आई.टी.–रुड़की–निदेशकः प्रोफेसरः के.के. पन्तः, आई.ए.एच.एस्.–अध्यक्षः प्रोफेसरः साल्वातोरे–ग्रिमाल्डी, आई.एन.एस्.ए.–उपाध्यक्षः तथा सी.एस्.आई.आर्.–एन्.ई.आई.एस्.टी.–निदेशकः डॉ. वी.एम्. तिवारी, आई.ए.एच.एस्.–एस्.ए. २०२५–अध्यक्षः प्रोफेसरः सुमित्–सेनः, संयोजकः प्रोफेसरः अंकित–अग्रवालः च उपस्थिताः आसन्।

आई.आई.टी.–रुड़की–निदेशकः प्रोफेसरः पन्तः उक्तवान् यत् एषा वैज्ञानिकसभा नवोन्मेषस्य, सहयोगस्य, ज्ञान–आदानप्रदानस्य च माध्यमेन वैश्विकजलसमस्यासु समाधानाय अस्माकं प्रतिबद्धतां प्रदर्शयति। एषा सभा जलविज्ञान–अनुसन्धान–क्षेत्रे तथा सततजलप्रबंधनदिशायाम् भारतस्य अग्रणीं भूमिकां सुदृढयति। सः अवदत् — “मम दृढं विश्वासम् अस्ति यत् एषा षड्दिवसीया सभा नूतन–विचारान्, दीर्घकालिक–सहभागितान्, परिवर्तनात्मक–नवोन्मेषान् च प्रेरयिष्यति, येन जलविज्ञानस्य समाजस्य च सम्यक् योगदानं भविष्यति।”

उल्लेखनीयम् यत् एषा वैज्ञानिकसभा ४९ राष्ट्रेभ्यः आगतानां ६२७आधिकानां प्रतिभागिनां, ६८२ वैज्ञानिकानां च सहभागितया आस्पताहं जलस्थैर्यं, जलवायु–अनुकूलनं च संवर्धयितुं विस्तीर्णचर्चाभिः, कार्यशालाभिः, नेटवर्किङ्–संवादैश्च वैश्विकसहयोगस्य संवर्धनाय समर्पिता भविष्यति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता