कटकनगरे त्रयोदश - आरक्षकक्षेत्रेषु गतिरोधाः, निषेधाज्ञा प्रवर्तिता, अन्तर्जालसेवाः स्थगिताः।
भुवनेश्वरम्, ०६ अक्तुबरमासः (हि.स.)। ओडिशाराज्यस्य कटकनगरे दुर्गापूजाविसर्जनयात्रायाम् उपद्रवे (पाषाणप्रहारे) जाते परिस्थितयः अत्यन्तं तनावपूर्णाः अभवन्। एतां स्थितिं दृष्ट्वा आयुक्त- आरक्षकेन रविवासरे रात्रौ दशवादने नगरस्य त्रयोदश- आरक्षकक्षेत्रेषु
8ce8b137f1fd4c63d79e02e6026f6bc9_256125288.jpg


भुवनेश्वरम्, ०६ अक्तुबरमासः (हि.स.)। ओडिशाराज्यस्य कटकनगरे दुर्गापूजाविसर्जनयात्रायाम् उपद्रवे (पाषाणप्रहारे) जाते परिस्थितयः अत्यन्तं तनावपूर्णाः अभवन्। एतां स्थितिं दृष्ट्वा आयुक्त- आरक्षकेन रविवासरे रात्रौ दशवादने नगरस्य त्रयोदश- आरक्षकक्षेत्रेषु षट्त्रिंशद्धोरावधि निषेधाज्ञा प्रवर्तिता।

निषिद्धक्षेत्राणि सन्ति — दरगाहबाजार:, मङ्गलाबाग:, कैंटोनमेन्ट्, पुरीघाट:, लालबाग:, बिडानासी, मर्कतनगरम्, सीडीए फेज्–द्वितीयः, मालगोदाम्, बादामबाडी, जगतपुरम्, द्विचत्वारिंशन्मौजा तथा सदरथानम्।

आरक्षक-आयुक्तः श्री एस. देवदत्तसिंहः उक्तवान् यत् — “परिस्थितेः विस्तृतसमीक्षानन्तरं निषेधाज्ञाप्रवर्तनस्य निर्णयः कृतः।” सः नागरिकान् चेतयामास यत् शान्तेः भङ्गः, उपद्रवः वा निषेधाज्ञालङ्घनं करणीयं चेत् कठोराणि दण्डात्मकानि उपायानि विधास्यन्ते इति।

एतस्मिन् मध्ये, ओडिशाराज्यस्य आरक्षकमहानिदेशकः श्री वाई.बी. खुरानियः रविवासरे कटकनगरे समीक्षां कृतवान् तथा जनान् सहयोगाय आह्वानम् अकरोत्। सः उक्तवान् — “जनाः केवलं आरक्षकवेबसाइट् मध्ये प्रकाशितायां प्रमाणिकायां सूचनायां एव विश्वासं कुर्वन्तु।”

मुख्यमन्त्री श्रीमोहनचरणमाझीमहोदयः डी.जी.पी. महोदयम् उपदिशत् यत् — सः कटकनगरे शिविरं स्थापयतु इति।

एतस्मिन् मध्ये, ओडिशासर्वकारेण कटकनगरस्य कतिपयभागेषु अन्तर्जालसेवाः सामाजिकमाध्यमसेवाश्च अस्थायिरूपेण स्थगितम्। गृहमन्त्रालयेन वक्तव्यम् — “व्हाट्सएप्, फेसबुक्, एक्स्, इंस्टाग्राम्, स्नैपचैट् इत्यादिषु माध्यमेषु प्रसृतानां अनृतवार्तानाम, उत्तेजकसन्देशानां तथा मिथ्यावृत्तीनां प्रसारनिवारणाय एषः उपायः स्वीकृतः।”

स्मरणीयम् यत्, शुक्रवासरे रात्र्यन्ते दरगाहबाजारप्रदेशे दुर्गाविसर्जनयात्रायां पाषाणप्रहारः अभवत्। तस्मिन् उपद्रवे कटकनगरस्य आरक्षकोपायुक्तः ऋषिकेशखिलारी इत्यनेन सह अनेके जनाः आहताः अभवन्।

हिन्दुस्थान समाचार / अंशु गुप्ता