बंदिता देवी राभा राष्ट्रियायाम् उपलब्धौ मुख्यमंत्रिणा शुभकामनाभिर्वर्धापिता
गुवाहाटी, 06 अक्टूबरमासः (हि.स.)।असमराज्यस्य मुख्यमंत्री डॉ॰ हिमन्तबिस्वशर्मा ग्वालपाडा-जनपदस्य बन्दिता देवी राभा इत्यस्यै प्रसाधनविद्यायाः (कॉस्मेटोलॉजी) क्षेत्रे अखिलभारतीयस्तरे प्रथमस्थानप्राप्तये राज्यस्य राष्ट्रस्य च गौरववृद्धये अभिनन्दनं दत्तव
Image shared by Assam CM Dr Himanta Biswa Sarma.


गुवाहाटी, 06 अक्टूबरमासः (हि.स.)।असमराज्यस्य मुख्यमंत्री डॉ॰ हिमन्तबिस्वशर्मा ग्वालपाडा-जनपदस्य बन्दिता देवी राभा इत्यस्यै प्रसाधनविद्यायाः (कॉस्मेटोलॉजी) क्षेत्रे अखिलभारतीयस्तरे प्रथमस्थानप्राप्तये राज्यस्य राष्ट्रस्य च गौरववृद्धये अभिनन्दनं दत्तवन्तः।

नवदिल्लीस्थिते विज्ञानभवने आयोजिते चतुर्थे राष्ट्रियकौशलसम्मेलने बन्दितायाः एषा सिद्धिः प्राप्ता। मुख्यमंत्री अवदत् — “ग्वालपाडातः विज्ञानभवनपर्यन्तं बन्दितायाः यात्रा प्रधानमन्त्रिणः नरेन्द्रमोदीनः नेतृत्वे सञ्चलमानस्य ‘स्किल् इण्डिया’ अभियानस्य सजीवप्रतीकं वर्तते।”

मुख्यमंत्री पुनः उक्तवान् यत्“बन्दितायाः एषा सफलता कौशलस्य, परिमाणस्य, गतिश्च तस्याः शक्तेः दृष्टान्तः यः नवभारतस्य निर्माणे प्रचलति।” तया सह शुभकामनाः दत्त्वा सः अवदत् — “अस्यााः उपलब्धिः असमराज्यस्य असंख्येययुवान् स्वकौशलविकासाय उज्ज्वलभविष्यदिशायाः च प्रेरणां दास्यति।”

हिन्दुस्थान समाचार