Enter your Email Address to subscribe to our newsletters
गुवाहाटी, 06 अक्टूबरमासः (हि.स.)।असमराज्यस्य मुख्यमंत्री डॉ॰ हिमन्तबिस्वशर्मा श्रीश्रीलक्ष्मीपूजायाः पावनसन्दर्भे प्रदेशवासिभ्यः हार्दिकशुभाशंसाः अर्पितवन्तः। तेन मातरलक्ष्म्यै समर्पितं संस्कृतश्लोकं उद्धृतम् —
“विश्वरूपस्य भार्यासी पद्मे पद्मालये शुभे।
सर्वतः पाहि मां देवि महालक्ष्मि नमोऽस्तुते॥
मुख्यमंत्री मातरलक्ष्म्याः श्रीचरणयोः समीपे प्रार्थनामकरोत् — “तव दिव्याशिषा सर्वेषां जीवनं मंगलमयं समृद्धं च भवतु। प्रत्येकगृहे सुखशान्तिः वैभवञ्च निवसतु।
सः आशां प्रकटितवान् यत् — “मातरः लक्ष्म्याः कृपया सर्वेषां जीवनं प्रकाशेन आनन्देन च परिपूर्णं भवतु।”
हिन्दुस्थान समाचार