Enter your Email Address to subscribe to our newsletters
ग्वालियरम्, 06 अक्टूबरमासः (हि.स.)।मध्यप्रदेशविधानसभायाः अध्यक्षः नरेन्द्रसिंहतॊमरः अद्य (सोमवासरे) ग्वालियरनगरं प्रति प्रवासं करिष्यति। सः स्वप्रवासकाले विविधेषु स्थानीयेषु कार्यक्रमेषु भागं ग्रहीष्यति।नियतकार्यक्रमानुसारं विधानसभा-अध्यक्षः तोमरः प्रातः ११:३० वादने श्रीमन्तमाधवरावसिंधिया-आदर्शविज्ञान-महाविद्यालयं आगम्य तत्र सी-ब्लॉक् इत्यस्य नवनिर्मितभवनस्य लोकार्पणसमारोहे मुख्यातिथिरूपेण सहभागी भविष्यति। ततः परं दौलतगञ्जं गत्वा मध्यभारत-हिन्दीसाहित्यसभया आयोजिते कार्यक्रमे उपस्थितः भविष्यति। अस्मिन् कार्यक्रमे श्रीतोमरः “तत्त्वमसि” इति ग्रन्थस्य विमोचनं करिष्यति।
हिन्दुस्थान समाचार