Enter your Email Address to subscribe to our newsletters
नवदेहली, 6 अक्टूबरमासः (हि.स.)। पश्चिमबङ्गराज्यस्य जलपाईगुडीजनपदस्य नागरकाटाक्षेत्रे आप्लावितप्रदेशान् निरीक्षितुं आगताः भारतीयजनतादलस्य नेतारः जनैः आक्रान्ताः अभवन्। अस्मिन् आक्रमणे मालदानोर्थक्षेत्रस्य भाजपा-सांसदः खगेन मुर्मू गम्भीररूपेण आहतः अभवत्।
सोमवासरे घटितस्य अस्य आक्रमणस्य निन्दां कुर्वन् भाजपा-सूचनाप्रकोष्ठाध्यक्षः अमित् मालवीयः उक्तवान् यत् — “पश्चिमबङ्गे तृणमूलकाङ्ग्रेसस्य अरण्यराज्यम् प्रवर्तते।” उत्तरीमालदायाः द्विवारं सांसदः, आदिवासीजनानां प्रतिष्ठितः नेता च खगेन मुर्मू, तदा आक्रान्तः आसीत् यदा सः जलपाईगुडीदुआर्सप्रदेशस्य नागरकाटायां विध्वंसकारीवृष्ट्या, आप्लावनेन, भूमिस्खलनेन च पीडितेषां जनानां सहायता-रक्षणकार्ये संलग्नः आसीत्।
सः अपि अवदत् — “यदा ममता बनर्जी कोलकाताकार्निवले नृत्यं कुर्वन्ती आसीत्, तदा तृणमूलकाङ्ग्रेसः राज्यप्रशासनं च अदृश्यं आसीत्। तस्मिन् समये भाजपा-नेतारः कार्यकर्तारश्च आप्लावितेषां जनानां कृते उद्धारकार्येषु संलग्नाः आसन्, किन्तु तेषाम् उपरि आक्रमणं कृतम्। एषः तृणमूलकाङ्ग्रेसस्य पश्चिमबङ्गः, यत्र क्रूरता एव प्रबलं भवति, सहाय्यं कुर्वन्तः जनाः ताडनया दण्ड्यन्ते।”
सूच्यते यत् भाजपाप्रतिनिधिमण्डलम् आप्लावितप्रदेशेषु राहतसामग्रीं वितरयितुं गतम् आसीत्, तस्मिन्नेव समये पाषाणप्रहारः आरब्धः अभवत्। अस्मिन् आक्रमणे खगेनमुर्मू गम्भीररूपेण आहतः, तस्य शिरसि पाषाणाघातेन गहना आघातः जातः, ततः तं शीघ्रं चिकित्सालयं प्रति नीतवन्तः। सिलीगुडीविधानसभाया विधायकः डॉ. शंकरघोषः अपि अस्मिन् हिंसाकाण्डे आहतः अभवत्।
खगेनमुर्मू, शंकरघोषसहिताः अन्ये भाजपानेतारः अपि तदा आक्रान्ताः अभवन्, यदा ते आप्लावितजनानां प्रति राहतवितरणं कुर्वन्तः आसन्। राज्ये आगामिवर्षे विधानसभानिर्वाचनम् अपेक्षितम् अस्ति, तस्मात् अस्य आक्रमणस्य पश्चात् राज्यराजनीतिः पुनः उष्णा जाता अस्ति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता