Enter your Email Address to subscribe to our newsletters
नवदेहली, 6 अक्टूबरमासः (हि.स.)।
बिहारराज्ये विधानसभानिर्वाचनद्वौ चरणौ भविष्यतः। प्रथमद्वितीयचरणयोः मतदानं क्रमशः नवम्बरमासस्य षष्ठे एकादशे च दिने भविष्यति। मतगणना तु नवम्बरमासस्य चतुर्दशे दिने भविष्यति इति समाचारं मुख्यनिर्वाचनायुक्तेन ज्ञानेशकुमारेन सोमवासरे प्रदत्तम्।
ज्ञानेशकुमारः अत्र विज्ञानभवने सोमवासरे आयोजिते पत्रकारसम्मेलने अवोचत् — प्रथमे चरणे नवम्बरमासस्य षष्ठे दिने एकशतैकविंशतिसु (121) आसनेषु मतदानं भविष्यति, द्वितीये चरणे एकादशे दिने द्विशते द्वादशसु (122) आसनेषु मतदानं भविष्यति। बिहारविधानसभानिर्वाचनं पूर्णपारदर्श्येन शान्त्यन्वितं च सम्पाद्यते इति।
राज्ये आहत्य सप्तकोट्यधिकानि त्रिचत्वारिंशल्लक्षं (7.43 कोटि) मतदातारः सन्ति, तेषु 3.92 कोटि पुरुषाः, 3.50 कोटि महिलाः, 1,725 उभयलिङ्गी मतदातारः च सन्ति। अपि च 7.2 लक्षं दिव्याङ्गमतदातारः, 4.04 लक्षं पञ्चाशदधिकवर्षीयाः (८५ वर्षात् अधिका:) मतदातारः, चतुर्दशसहस्रं शतवर्षात् अधिकाः मतदातारः, 1.63 लक्षं सेवा मतदातारः च सन्ति। राज्ये अष्टादश – एकोनविंशतिवर्षवयस्काः 14.01 लक्षं मतदातारः, विंशति – एकोनत्रिंशतिवर्षवयस्काः 1.63 कोटि मतदातारः च सन्ति। अस्मिन् निर्वाचनकाले प्रायः 14 लक्षं मतदातारः प्रथमवारं मतदानं करिष्यन्ति। नूतनमतदातृभ्यः पञ्चदशदिनानां मध्ये मतदाता–परिचयपत्राणि प्रदास्यन्ते।
मुख्यनिर्वाचनायुक्तेन उक्तम् — राज्ये 90,712 मतदानकेन्द्राणि निर्मितानि, तेषु 76,801 ग्राम्यप्रदेशेषु, 13,911 नागरप्रदेशेषु च सन्ति। प्रत्येके केन्द्रे औसततया 818 मतदातारः भविष्यन्ति। तदतिरिक्तं 292 दिव्याङ्ग, 38 युवा, 1,044 महिला–संवाहितानि मतदानकेन्द्राणि निर्मितानि। 1,350 आदर्शमतदानकेन्द्राणि अपि संस्थाप्यन्ते। सर्वेषु केन्द्रेषु वेबकास्टिंगसुविधा भविष्यति यथा पर्यवेक्षणं सुनिश्चितं स्यात्।
सः अवोचत् — बिहारराज्येन मतदाता–सूचिशोधनस्य विषयः राष्ट्रे आदर्शरूपेण प्रस्तुतः अस्ति। विशेषगहनपुनरीक्षणेन (SIR) मतदातासूचयः अद्यतनाः कृताः। मसौदसूचिप्रकाशनानन्तरं सर्वेषां राजनैतिकपक्षाणां नागरिकानां च दावेभ्यः आपत्तिभ्यश्च अवसरः दत्तः आसीत्। अन्तिममतदाता–सूचिः 30 सितम्बरदिने प्रकाशिताभूत्। नामाङ्कनस्य अन्तिमतिथेः दशदिनपूर्वं यावत् मतदातासूच्यां नाम सङ्कलनीयम्, किन्तु अन्तिमसूचिप्रकाशनानन्तरं नूतननाम न स्वीकृत्यते।
बिहारविधानसभायाम् 243 आसनानि सन्ति, तेषु 38 अनुसूचितजातीनां कृते, द्वे अनुसूचितजनजातीनां कृते आरक्षिते स्तः। वर्तमानविधानसभायाः कार्यकालः नवम्बरमासस्य द्वाविंशे दिने 2025 तमे वर्षे समाप्तो भविष्यति। निर्वाचनायोगस्य अस्मिन् पत्रकारसम्मेलने निर्वाचनायुक्तौ सुखबीरसिंहसन्धुः विवेकजोशी च उपस्थितौ आस्ताम्। मुख्यनिर्वाचनायुक्तेन प्रतिपादितम् — आयोगस्य सम्पूर्णटीमं राज्यप्रशासनं च मिलित्वा बिहारराज्ये निष्पक्षं, सुरक्षितं पारदर्शकं च निर्वाचनं सम्पादयिष्यतः इति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता