Enter your Email Address to subscribe to our newsletters
भोपालम्, 6 अक्टूबरमासः (हि.स.)।वर्षापवननस्य निर्गमनात् पूर्वं मध्यप्रदेशे झमझमवृष्टेः क्रमः प्रचलितः अस्ति। गतरविवासरे राजधानीभोपालसहितं विंशताधिकेषु जनपदेषु वर्षा अभवत्। भोपालनगरे ढाई इञ्चपर्यन्तं, बैतूले च द्व्यधिकइञ्चपर्यन्तं जलपातः जातः। वातावरणविभागेन अद्य सोमवारे अपि प्रान्तस्य अनेकेषु जनपदेषु लघुवर्षायाः सम्भावना व्यक्ता अस्ति।
वातावरणविभागस्य अनुसारं प्रान्ते मौसमीप्रणालयः सक्रियाः सन्ति, अतः आगामिदिनेभ्यः त्रिभ्यः दिनेषु लघुवृष्टेः क्रमः निरन्तरं भविष्यति। यत्र ग्वालियर–चम्बलसंभागः शुष्कः एव भविष्यति। अद्यापि कुत्रापि प्रचण्डवृष्टेः चेतावनी नास्ति।
गतरविवासरे भोपाल–बैतूलसहितं विंशताधिकेषु जनपदेषु वर्षा अभवत्। भोपालनगरे सायं तीव्रा वर्षा अभवत्। भोपाल–इन्दौरमार्गे अतिवृष्टेः कारणात् वाहनानि शनैः शनैः गच्छन्ति स्म। वर्षायाः फलतः भदभदा–कलियासोतबन्धयोः एकैकं द्वारं रात्रौ एव उद्घाटितम्। गुना, नर्मदापुरम्, पचमढी, श्योपुर, शिवपुरी, शाजापुर, सीहोर, छिन्दवाड़ा, दमोह, सतना, सिवनी, बालाघाट इत्येषु स्थलेषु अपि वर्षा अभवत्। श्योपुर–सिवनीयोः स्थलेषु प्रायेण डेढइञ्चपर्यन्तं जलपातः जातः। रात्रेः अन्ते यावत् प्रान्तस्य अनेकेषु जनपदेषु कतिचन स्थलेषु तीव्रा, कतिचन स्थलेषु लघुवृष्टिः अभवत्।
विदितं भवतु यत् प्रान्तस्य द्वादशसु जनपदेषु मानसूनः निर्गतः एव अस्ति। अवशिष्टजनपदेषु दशम्यां अक्टोबरमासस्य तिथौ मानसूनस्य निर्गमनं सम्भाव्यते। तस्मात् तस्मात् पूर्वं कतिचन स्थलेषु तीव्रा, कतिचन स्थलेषु लघुवृष्टिः भविष्यति। वातावरणविभागस्य अनुसारं यावत् ग्वालियर, श्योपुर, मुरैना, भिण्ड, दतिया, शिवपुरी, गुना, आगरमालवा, नीमच, मंदसौर, रतलाम इत्येषु जनपदेषु मानसूनः निर्गतः अस्ति। राजगढ–अशोकनगरयोः कतिचन भागेभ्यः अपि वर्षापवनः निर्गतः। अवशिष्टेषु जनपदेषु दशम्यां अक्टोबरतिथौ वर्षापवनः पूर्णतया निर्गमिष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता