मुख्यमंत्री डॉ. यादवोऽद्य जबलपुरे करिष्यति द्वयोः महाविद्यालयोः नवीन शैक्षणिक भवनस्य लोकार्पणम्
भोपालम्, 6 अक्टूबरमासः (हि.स.)।मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहन यादवः अद्य सोमवारे जबलपुरनगरे स्थिते प्रधानमन्त्रिणः उत्कृष्टमहाविद्यालये, शासकीयमहाकोशलमहाविद्यालयस्य त्रीदशकोटि-सप्तत्रिंशलक्ष-रूप्यकविनिर्मितस्य नूतनशैक्षणिकभवनस्य, तथा शासकीयविज्ञ
मुख्यमंत्री डॉ. यादव


भोपालम्, 6 अक्टूबरमासः (हि.स.)।मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहन यादवः अद्य सोमवारे जबलपुरनगरे स्थिते प्रधानमन्त्रिणः उत्कृष्टमहाविद्यालये, शासकीयमहाकोशलमहाविद्यालयस्य त्रीदशकोटि-सप्तत्रिंशलक्ष-रूप्यकविनिर्मितस्य नूतनशैक्षणिकभवनस्य, तथा शासकीयविज्ञानमहाविद्यालयस्य दशकोटि-पञ्चलक्ष-रूप्यकव्ययेन निर्मितस्य नूतनभवनस्य लोकार्पणं करिष्यन्ति। तदनन्तरं महाकोशलमहाविद्यालये त्रीकोटि-सप्तषष्टिलक्ष-रूप्यकव्ययेन निर्मीयमाणस्य भवनस्य भूमिपूजनं अपि करिष्यन्ति।

प्रधानमन्त्रीउत्कृष्टमहाविद्यालयस्य प्राचार्यः प्रोफेसरः अलकेश चतुर्वेदी नामकः उक्तवान् यत् मुख्यमन्त्री डॉ. यादवः महाविद्यालये आयोज्यमाने प्रतिभासम्मानकार्यक्रमे शैक्षणिक-उत्कृष्टता, क्रीडा, सांस्कृतिक, नवोन्मेष तथा सामाजिकसेवा इत्यादिक्षेत्रेषु विशिष्टसफलतां प्राप्तान् विद्यार्थिनः सम्मानयिष्यन्ति। अस्मिन् कार्यक्रमे लोकनिर्माणमन्त्री राकेशसिंहः, राज्यसभासदस्या सुमित्रा बाल्मीकि, सांसदः आशीष दुबे, महापौरः जगतबहादुरसिंहः (अन्नु), क्षेत्रीयविधायकः अशोकरोहाणी, नगरनिगमाध्यक्षः रिकुञ्जविज्, जनभागीदारीसमित्याः अध्यक्षः आशीषराव च विशेषरूपेण उपस्थिताः भविष्यन्ति।

प्रो. चतुर्वेदी उक्तवान् यत् प्रधानमन्त्रिणः उत्कृष्टमहाविद्यालयस्य महाकोशलमहाविद्यालये नूतने शैक्षणिकभवने एकोनविंशतिः व्याख्यानकक्षाः, प्रशासनिकखण्डः, स्मार्टकक्षाः, पुस्तकालयः, प्रयोगशालाः, सामान्यकक्षाश्च इत्यादयः आधुनिकसुविधाः उपलभ्यन्ते। एतत् भवनं प्रधानमन्त्रिणः उत्कृष्टतायोजनायाः अनुरूपं प्रदेशस्य अग्रगण्यशैक्षणिकसंस्थानानां मध्ये अस्य महाविद्यालयस्य प्रतिष्ठापनायाम् अत्यन्तं महत्वपूर्णं पादं स्थापयति।

सः अपि उक्तवान् यत् एषः अवसरः महाकोशलमहाविद्यालयस्य गौरवपूर्णइतिहासे स्वर्णिमं प्रकरणं योजयिष्यति। प्रायेण पञ्चदशशतं विद्यार्थी, अभिभावकाः, शिक्षाविदः तथा नागरिकाः अस्य अवसरस्य साक्षिणः भविष्यन्ति। एषः आयोजनः जबलपुरनगरे शिक्षायाः च युवा-ऊर्जायाश्च प्रतीकरूपेण प्रदेशे उत्कृष्टता–नवोन्मेषयोः नूतनमानकान् स्थापयिष्यति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता