इतिहासपृष्ठेषु अक्टूबरमासस्य सप्तदिनांक: विशेषः — १९९२ तमे वर्षे त्वरितकार्यबलस्य गठनम्
१९९२ तमे वर्षे अक्टूबरमासस्य सप्तमे दिने भारतदेशे त्वरितकार्यबलस्य गठनम् अभवत्। एषः बलः केन्द्रीयआरक्षित- आरक्षकबलस्य (सी.आर.पी.एफ.) विशेषएकिका अस्ति, या सांप्रदायिक- उपद्रवेषु सामूहिकविक्षोभेषु च परिस्थितिषु शान्तिस्थापनाय सज्जा कृता आसीत्। तस्य प्
0d0ac1d076adb07d8b0e05f06c746da9_681816964.jpg


१९९२ तमे वर्षे अक्टूबरमासस्य सप्तमे दिने भारतदेशे त्वरितकार्यबलस्य गठनम् अभवत्। एषः बलः केन्द्रीयआरक्षित- आरक्षकबलस्य (सी.आर.पी.एफ.) विशेषएकिका अस्ति, या सांप्रदायिक- उपद्रवेषु सामूहिकविक्षोभेषु च परिस्थितिषु शान्तिस्थापनाय सज्जा कृता आसीत्।

तस्य प्रमुखलक्ष्यम् — उपद्रवेषु परिस्थितिषु सहानुभूत्या सह व्यावसायिकदक्षतया च कार्यं कृत्वा शान्तिः पुनः संस्थापयितुम्। प्राकृतिक-आपत्सु, सहायताकार्येषु, उद्धारकार्येषु च आरएएफ नागरिकप्रशासनस्य सक्रियसहायिका भवति।

अद्य अपि एषः बलः देशस्य विविधानि भागानि सामाजिकसौहार्दस्य संरक्षणे आपत्सु च अग्रणी-भूमिकां निर्वहति। नीलावासः (वर्दी) त्वरिततैनात्यशक्ति च एतत् बलं राष्ट्रस्य विश्वसनीयेषु बलेषु गणनीयम् करोति।

---

महत्त्वपूर्णाः घटनाचक्राः

१५८६ — मुग़लसेनया कश्मीरप्रदेशे प्रवेशः कृतः।

१७३७ — बंगालदेशे सागरस्य जलमध्ये २० सहस्राणि नौकानि ४० पादपर्यन्तं निमग्नानि, त्रिलक्षाधिकानां जनानां मृत्युः।

१८४० — विलेमद्वितीयः नीदरलैण्ड इत्यस्य राजत्वम् आरब्धवान्।

१८६८ — अमेरिकादेशे कोर्नेल् विश्वविद्यालयस्य उद्घाटनम् अभवत्। तस्मिन् काले ४१२ विद्यार्थिनः नामाङ्कनम् अभवत्, यत् तस्मिन् समये महत्तमसंख्या आसीत्।

१९१९ — महात्मनः गान्धेः ‘नवजीवन’ नामिका पत्रिका प्रकाशिताऽभवत्।

१९४२ — अमेरिका-ब्रिटिशयोः सर्वकाराभ्यां संयुक्तराष्ट्रसंस्थायाः स्थापने घोषणाम्।

१९५० — मदरटेरेसया कोलकातानगरे 'मिशनरीज़् ऑफ् चैरिटी' संस्थायाः स्थापना कृता।

१९५२ — चण्डीगढ़: पंजाबस्य राजधानी अभवत्।

१९५९ — सोवियतसंघस्य ‘लूनर-३’ इत्यस्य अन्तरिक्षयानस्य द्वारा चन्द्रस्य अपश्यभागस्य चित्रग्रहणम्।

१९७७ — सोवियतसंघेन चतुर्थसंविधानम् अंगीकृतम्।

१९९२ — त्वरितकार्यबलस्य (आरएएफ) स्थापना।

१९९७ — सूर्यबहादुरथापेन नेपालस्य प्रधानमन्त्रित्वस्य शपथग्रहणम्। भारत-रूसयोः सुरक्षा-सहकार्यं २०१० पर्यन्तं विस्तारितम्।

२००० — डब्ल्यूडब्ल्यूएफ्-इण्डिया प्रथमं ‘राजीवगान्धी वन्यजीवसंरक्षणपुरस्कारम्’ अलभत।

२००० — जापानदेशे मानवक्लोनिङ् दण्डनीयअपराधः घोषितः।

२००१ — अमेरिकादेशेन ‘एन्ड्यूरिङ्ग् फ्रीडम्’ इत्याख्यः आतंकवादविरोधी अभियानम् आरब्धम्।

२००३ — पाकिस्तानस्य राष्ट्रपतिः परवेज़् मुशर्रफः कट्टरवादिविरोधिनम् अभियानम् अनुवर्तयामास।

२००४ — जर्मनीदेशेन भारतस्य सुरक्षा-परिषद् सदस्यपदस्य दावित्वाय समर्थनम्।

२००८ — फिलिस्तीनराष्ट्रस्य राष्ट्रपति: महमूद अब्बासः भारतस्य चतुरदिवसीयराजकीययात्राम् आरब्धवान्।

२०११ — लाइबेरियायाः राष्ट्रपतिः एलेन जान्सनसरलीफ:, शान्ति-नारीअधिकारकार्यकर्त्री लीमेह जीबोई, यमनस्य तवाकुल् करमान च शान्तिक्षेत्रे नोबेलपुरस्काराय घोषिता।

जन्मानि

१९२२ — बलीरामभगतः — प्रसिद्धः स्वतंत्रतासेनानी, लोकसभाध्यक्षः च।

१९७८ — जहीरखानः — पूर्वभारतीयक्रिकेटक्रीडकः।

१९७९ — युक्तामुखी — भारतीयमॉडल्, अभिनेत्री, मिस् वर्ल्ड्।

१९७७ — वाजिदखानः — ‘साजिद-वाजिद’ इत्यस्य प्रसिद्धसंगीतकारयुगलस्य सदस्यः।

१९१४ — बेगम-अख्तर् — प्रसिद्धा गजल्-ठुमरीगायिका।

१९२४ — विजयदेवनारायणसाही — प्रसिद्धः कविः आलोचकः च।

१९५२ — व्लादिमीरपुतिन: — रूसदेशीयः राजनीतिज्ञः।

१९४९ — इन्द्रजीत् लांबा — भारतीयः अश्ववाहकक्रीडकः।

१९४३ — अरुणभादुरी — प्रसिद्धः शास्त्रीयगायकः।

१९०७ — दुर्गाभाभी — स्वाधीनतासङ्ग्रामे क्रान्तिकारिणां प्रमुखसहायिका।

१८९१ — नरहरिपारिखः — स्वतंत्रतासेनानी, महात्मगान्धेः निकटसहयोगी च।

निधनानि

२०२२ — अरुणबाली — प्रसिद्धः चलचित्र-दूरदर्शन -अभिनेता।

२०२० — अश्वनीकुमारः — केन्द्रीयअन्वेषणब्यूरो (सीबीआई) इत्यस्य पूर्वनिदेशकः।

१७०८ — गुरुगोविन्दसिंहः — सिखधर्मस्य गुरुः।

१९७१ — के. केलप्पन् — केरलस्य राष्ट्रवादीनेता, स्वतंत्रतासेनानी, समाजिककार्यकर्ता च।

१९६१ — केदारेश्वरसेनगुप्तः — प्रसिद्धः क्रान्तिकारी व्यक्तिः।

महत्त्वपूर्णः दिवसः

वन्यजीवसप्ताहः — २ अक्तुबरात् ८ अक्तुबरपर्यन्तम्।

---

हिन्दुस्थान समाचार / अंशु गुप्ता