Enter your Email Address to subscribe to our newsletters
लखनऊनगरम्, ६ अक्तुबरमासः (हि. स.)। मुख्यमन्त्रिणा सोमवासरे जनतादर्शन इति कार्यक्रमे प्रदेशस्य सर्वतः आगतानां जनानां प्रार्थनाः श्रुताः, तेषां समस्याः अपि ज्ञाताः, तासां समाधानाय अधिकाऱिणः निर्दिष्टाः च। मुख्यमन्त्रिणा उक्तम्— “सर्वेषां मुखेषु हर्षः संतोषश्च एव सर्वकारस्य प्राथमिकता अस्ति।”
मुख्यमन्त्री योगी आदित्यनाथः सोमवासरे प्रातःकाले स्वस्य पूर्वनियतकार्यक्रमे जनतादर्शने एकैकं जनं प्रति स्वयमेव गत्वा तेषां समस्याम् अपृच्छत्, तेषां प्रार्थनापत्राणि च स्वहस्तेन गृह्णात्। समस्यासु निवारणाय अधिकाऱिणः निर्देशाः दत्ताः यत् निश्चितावधौ सर्वेषां समस्याः यथोचितं निवार्यन्ताम्। अस्मिन् जनतादर्शने आरक्षकाः, राजस्व, आर्थिकसहायासम्बद्धाः प्रकरणानि गृहीत्वा पञ्चाशत् अधिकाः जनाः उपस्थिताः आसन्।
अस्मिन् अवसरे मुख्यमन्त्रिणा उक्तम्— “परस्य मुखे हर्षं आनयितुं एव ईश्वरसेवा इति। राज्यसर्वकारेण प्रत्येकं पीडितं सुखिनं कर्तुं भावनया कार्यं करोति। सर्वकारस्य योजनानां लाभः भेदभावविना सर्वेभ्यः प्रदीयते। जनतादर्शन इत्यनेन माध्यमेन अपि समस्याः निवार्यन्ते।”
मुख्यमन्त्रिणा बालकेभ्यः चॉकलेहं दत्तम्।
मुख्यमन्त्रिणा जनतादर्शने आगतानां जनैः सह आगतानां बालकानां च स्वास्थ्यं पृष्टम्, तेषां शिरसि हस्तं स्थाप्य स्नेहं दर्शितम्, आत्मीयभावनां च दत्तम्। सर्वेषां बालकानां मुख्यमन्त्रिणा चॉकलेहं–टॉफी इति दत्तम्, यथावत् पठन्तु, क्रीडन्तु च इति उपदेशः अपि दत्तः।
---
हिन्दुस्थान समाचार / अंशु गुप्ता