मध्यप्रदेशस्य राज्यपालः अद्य सागरजनपदे प्रवासाय गच्छति, विविधेषु कार्यक्रमेषु सम्मिलिष्यति
सागरः, 06 अक्टूबरमासः (हि.स.)। मध्यप्रदेशस्य राज्यपालः मंगुभाइ पटेलः अद्य सोमवासरे सागरजनपदस्य ग्राम कडता-रहलीं प्रवासाय भविष्यति। अस्मिन् अवसरे सः विविधेषु कार्यक्रमेषु सम्मिलिष्यति। निर्धारितकार्यक्रमानुसारं, राज्यपालः पटेलः सागरात् प्रस्थानं कृत्
राज्यपाल मंगुभाई पटेल (फाइल फोटो)


सागरः, 06 अक्टूबरमासः (हि.स.)। मध्यप्रदेशस्य राज्यपालः मंगुभाइ पटेलः अद्य सोमवासरे सागरजनपदस्य ग्राम कडता-रहलीं प्रवासाय भविष्यति। अस्मिन् अवसरे सः विविधेषु कार्यक्रमेषु सम्मिलिष्यति।

निर्धारितकार्यक्रमानुसारं, राज्यपालः पटेलः सागरात् प्रस्थानं कृत्वा ९.५५ वादने ग्राम कडता नर्सरीमध्ये फळवृक्षरोपणकार्यक्रमे अन्तर्गत वृक्षारोपणं करिष्यति। ततः १०.१० वादने सः कार्यक्रमस्थलं ग्राम कडतां प्राप्त्वा स्वास्थ्यशिबिरस्य निरीक्षणं करिष्यति। कार्यक्रमे राज्यपालः १०.५५ वादने पर्यन्तं हितग्राहिभ्यः विविधयोजनानामन्तर्गत लाभान् वितरिष्यति तथा हितग्राहिभ्यः सह संवादं करिष्यति। ततः सः ११.१७ वादने प्रधानमंत्री आवासयोजनायाः हितग्राहिनिवासं प्राप्य अतिथिभिः सह भोजनं करिष्यति। भोजनानन्तरम् १२.०२ वादने सः ढाना वायुयानमार्गे स्थितं विश्रामगृहं प्रति प्रस्थानं करिष्यति तथा १२.२५ वादने विश्रामगृहात् वायुयानमार्गे प्राप्त्वा स्वगन्तव्याय प्रस्थानं करिष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता