Enter your Email Address to subscribe to our newsletters
कोलकाता, 6 अक्तुबरमासः(हि. स.)। उत्तरबङ्गालप्रदेशे अतिवृष्ट्या भूस्खलनैश्च जातायाम् आपदायां पश्चिमबङ्गराज्यस्य मुख्यमन्त्री ममताबनर्जी इत्यस्या मृतानां परिवाराणां कृते महती राशिः घोषिता। राज्यसर्वकारस्य पक्षेण प्रत्येकमृतपरिवाराय पञ्च–पञ्चलक्षरूप्यकाणां क्षतिपूरणराशिः परिवारस्य चैकस्मै सदस्याय होमगार्ड् पदे नियोजनं च घोषितम्।
मुख्यमन्त्री ममताबनर्जी सोमवासरे मध्याह्ने उत्तरबङ्गालस्य जलापदा–भूस्खलनप्रभावितक्षेत्रस्य निरीक्षणात् पूर्वं कोलकातायां पत्रकारैः सह संवादे उक्तवती—“मम ज्ञाने अस्ति यत् धनैः कस्यापि जीवनस्य प्रतिपूर्ति कर्तुं न शक्यते। तथापि सर्वकारस्य सामाजिकदायित्वं भवति यत् संकटकाले जनैः सह स्थातव्यम्। अतः एव क्षतिपूरणराशेः जीवीकोपार्जनवृत्तेः च एषा सहायता प्रदीयते, यथा पीडितपरिवाराः भविष्ये अन्येषां परावलम्बनं न कुर्वन्तु।”
मुख्यमन्त्रिणा उक्तं यत् उत्तरबङ्गालस्य परिस्थितयः ततोऽपि दारुणा अभवत्, यतः समीपदेशात् भूटानदेशात् विशालमात्रयां जलं विमोचितम्। एतां आपदं सा “मानवनिर्मितां” इति व्याहरत्। ममताबनर्जी इत्यस्या: अनुसारं, यथा दक्षिणबङ्गाले दामोदरघाटी निगमस्य (DVC) बाँधात् जलविमोचनात् आपदा उत्पन्ना, तथैव भूटानदेशस्यापि जलविमोचनात् उत्तरबङ्गालेऽपि अयं संकटः समुत्पन्नः।
एतस्मिन् विषये भाजपानेता विधानसभाविपक्षनेता च शुभेंदु अधिकारी इत्यनेन मुख्यमन्त्रिणः आलोचना कृता। सः उक्तवान्— “मुख्यमन्त्री सर्वदा आपदाकाले दायित्वात् पलायनाय दोषारोपणक्रीडां आरभते। दक्षिणबङ्गाले सा DVC इत्यस्य दोषं ददाति, उत्तरबङ्गाले भूटानदेशस्य। अस्मिन काले तु प्राधान्यं जनसहाय्याय दातव्यम्, न तु परस्परदोषारोपणे।”
राज्यसर्वकारस्य सूचनानुसारं अद्यावत् उत्तरबङ्गालप्रदेशस्य पर्वतीयतराई–डुआर्सप्रदेशेषु (यः भारतस्य पूर्वोत्तरभागे हिमालयस्य अधोभागे अवस्थितः जलोढ–आपदाक्षेत्रः अस्ति) अतिवृष्ट्या भूस्खलनैश्च २३ जनानां मृत्युः अभिलिखितः अस्ति।
---body{font-family:Arial,sans-serif;font-size:10pt;}.cf0{font-family:Nirmala UI,sans-serif;font-size:11pt;}
हिन्दुस्थान समाचार / अंशु गुप्ता