Enter your Email Address to subscribe to our newsletters
नवदिल्ली, 06 अक्टूबरमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी तथा केन्द्रीयगृह मन्त्री अमितशाह इत्येतौ द्वावपि सोमवासरे राजस्थानराजधानीजयपुरनगरस्थे एकस्मिन् चिकित्सालये जातायामग्निदुर्घटनायां निधनं प्राप्तानां प्रति शोकं प्रकटितवन्तौ। प्रधानमंत्रीकार्यालयेन सामाजिकमाध्यमे एक्स् इत्यस्मिन् प्रकाशिते सन्देशे प्रधानमन्त्रीमोदी अवदत् यत्राजस्थानस्य जयपुरनगरस्थे चिकित्सालये जातायामग्निदुर्घटनायां निधनं प्राप्तानां समाचारः अतीव दुःखदः अस्ति। येषां प्रियजनाः दिवंगताः, तेषां प्रति मम संवेदना। आहतानां शीघ्रं स्वास्थ्यलाभं कामये।
केन्द्रीयगृह मन्त्री अमितशाह अपि एक्स् इत्यस्मिन् दुःखं प्रकट्य अवदत् — जयपुरस्थे सवाईमानसिंह-आस्पताले जाताग्निदुर्घटना दुःखदास्ति। स्थानिकप्रशासनं रोगिणां सुरक्षा, उपचारं च प्रभावितजनसेवा च कृते सर्वाणि आवश्यकानि उपायान् करोत्। ये जनाः अस्यां घटनायां प्राणान् त्यक्तवन्तः, तेषां परिवारजनानां प्रति मम संवेदनाः। आहतानां शीघ्रं स्वास्थ्यलाभं प्रार्थये।
राजस्थानराजधानीजयपुरे सवाईमानसिंह (एस.एम्.एस्.)-आस्पताले स्थितस्य ट्रॉमाकेन्द्रस्य आई.सी.यू. विभागे रविवासरस्य रात्रौ जातायामग्नौ सप्तजनाः रोगिणः निधनं प्राप्तवन्तः। मृतजनानां नामानि — पिण्टु (सीकर), दिलीपः(आन्धी, जयपुर), श्रीनाथः (भरतपुर), रुक्मणि (भरतपुर), कुशमा (भरतपुर), सर्वेश (आग्रा, उत्तरप्रदेश), बहादुर (सांगानेर, जयपुर) इति।
---------------
हिन्दुस्थान समाचार