मैरी ब्रुनको, रामस्डेल अथ सकागुची इत्येभ्यो लप्स्यते चिकित्सा क्षेत्रस्य नोबेल पुरस्कारः
स्टॉकहोमः, 6 अक्टूबरमासः (हि.स.)।वर्षे २०२५ तमे चिकित्सा-क्षेत्रस्य नोबेल्-पुरस्कारस्य सोमवासरे घोषणा कृता। अस्मिन् वर्षे त्रयः वैज्ञानिकाः— मैरी ई. ब्रुनको, फ्रेड् राम्स्डेल्, तथा शिमोन् सकागुची— इत्येभ्यः एषः गौरवः प्रदत्तः। एतेभ्यः परिधीय-प्रत
नाेबेल पुरसकार्


स्टॉकहोमः, 6 अक्टूबरमासः (हि.स.)।वर्षे २०२५ तमे चिकित्सा-क्षेत्रस्य नोबेल्-पुरस्कारस्य सोमवासरे घोषणा कृता।

अस्मिन् वर्षे त्रयः वैज्ञानिकाः— मैरी ई. ब्रुनको, फ्रेड् राम्स्डेल्, तथा शिमोन् सकागुची— इत्येभ्यः एषः गौरवः प्रदत्तः।

एतेभ्यः परिधीय-प्रतिरक्षा-सहिष्णुतायाः सम्बन्धे कृतस्य आविष्कारस्य कारणात् एषः पुरस्कारः दत्तः।

रॉयल् स्वीडिश् एकैडमी ऑफ् साइन्सेस् इत्यनेन चिकित्सा-क्षेत्रस्य नोबेल्-पुरस्कार-प्राप्तानां नामानि प्रकाशितानि।

एतेभ्यः त्रिभ्यः विजेतृभ्यः १० डिसेम्बर् दिने स्टॉकहोम्-नगरे १०.३ कोटीरूप्यकाणि, सुवर्णपदकम्, प्रमाणपत्रं च पुरस्काररूपेण प्रदास्यन्ति।

ब्रुनको, राम्स्डेल्, सकागुची इत्येभ्यः वैज्ञानिकैः प्रतिरक्षा-तन्त्रस्य रक्षकत्वेन प्रसिद्धानां नियामक-टी-कोशिकानां स्वरूपं शोधितम्।

एताः कोशिकाः सुनिश्चितं कुर्वन्ति यत् प्रतिरक्षा-कोशिकाः स्वशरीरे एव आक्रमणं न कुर्वन्ति।

एतस्मिन् आधारे कर्कट-रोगस्य तथा स्व-प्रतिरक्षा-रोगाणां उपचाराः अनुसंधीयन्ते,

तथा अङ्ग-प्रत्यारोपण-क्षेत्रेऽपि एषा खोजः उपकारिणी जाताऽस्ति।

अस्माकं प्रतिरक्षा-तन्त्रं प्रति-दिनं सहस्रशः सूक्ष्मजीवैः अस्मान् रक्षति।

एते सर्वे सूक्ष्मजीवाः भिन्नरूपाः सन्ति; केचन तु मानव-कोशिकानां सदृशरूपं धारयितुं शक्तिम् उपार्जितवन्तः,

येन प्रतिरक्षा-तन्त्राय एषां मध्ये कोऽस्ति शत्रुः, कोऽस्ति रक्षितव्यः इति निर्णयं कर्तुं कठिनं भवति।

चिकित्सा-क्षेत्रस्य नोबेल्-पुरस्कारः अधिकृतरूपेण ‘शरीरक्रिया-विज्ञानं वा औषधशास्त्रं’ (Physiology or Medicine) इति संज्ञया प्रसिद्धः।

गतवर्षे एषः पुरस्कारः अमेरिकीयनागरिकाभ्यां विक्टर् एम्ब्रोस तथा गैरी रुवकुन इत्येभ्यः

सूक्ष्म-राइबोन्यूक्लिक-अम्लस्य आविष्कारार्थं प्रदत्तः आसीत्।

चिकित्सा-क्षेत्रे भारतीय-उत्पत्त्याः अमेरिकीय-वैज्ञानिकः हरगोविन्दः खुराना अपि नोबेल्-पुरस्कारं प्राप्तवान्।

सः वर्षे १९६८ तमे एषं पुरस्कारं लब्धवान्।

तेन अनुवंशिक-कूटस्य सम्बन्धे कृतः शोधः अस्मान् ज्ञापितवान् यत्

कथं शरीरस्य भीतरं प्रोटीनाः निर्मीयन्ते।

एषः आविष्कारः चिकित्सा-जगतं रूपान्तरितवान्,

कर्कट-रोगोपचार, औषध-निर्माण, अनुवंशिक-अभियांत्रिकी (Genetic Engineering) च क्षेत्रेषु महान् उपकारः अभवत्।

खुराणेन तस्य शोधेन अवगमितं यत् डी.एन.ए. कथं शरीराय आवश्यकं प्रोटीनं निर्माति।

भारतसम्बद्धाः द्वादश जना नोबेल्-पुरस्कारं लब्धवन्तः,

किन्तु चिकित्सा-क्षेत्रे केवलं खुराण एव एषं पुरस्कारं प्राप्तवान्।

उल्लेखनीयम् यत् नोबेल्-पुरस्कारस्य स्थापना १८९५ तमे वर्षे अभवत्।

प्रथमं पुरस्कारः १९०१ तमे वर्षे प्रदत्तः।

१९०१ तः २०२४ पर्यन्तं चिकित्सा-क्षेत्रे २२९ जना एतेन सम्मानिताः।

एते पुरस्काराः वैज्ञानिकस्य तथा आविष्कारकस्य अल्फ्रेड् बर्नहार्ड् नोबेल् इत्यस्य वसीयतानुसारं प्रदीयन्ते।

प्रारम्भे केवलं भौतिकशास्त्र, औषधशास्त्र (चिकित्सा), रसायनशास्त्र, साहित्यं, शान्तिः इत्येषु एव पुरस्कारः दत्तः आसीत्,

अनन्तरं अर्थशास्त्र-क्षेत्रेऽपि

नोबेल्-पुरस्कारः प्रदीयमानः अभवत्।

-----------—--

हिन्दुस्थान समाचार