वन्यजीवसप्ताहस्य २०२५ अन्तर्गतं प्रकल्पभालू , प्रकल्पघड़ियालसहितं पञ्चप्रमुखपरियोजनानां आरम्भः कृतः
नवदेहली, 6 अक्टूबरमासः (हि.स.)। पर्यावरणवनजलबायुपरिवर्तन-मन्त्रालयेन सोमवासरे वन्यजीवसप्ताहस्य २०२५ अन्तर्गतं प्रकल्पभालू सहितं पञ्च प्रमुखपरियोजनानां शुभारम्भः कृतः। देहरादूने आयोजिते सप्तमे राष्ट्रीयवन्यजीवायोगस्य सभायां केन्द्रीयः मन्त्री भूपेन्
भूपेन्द्र यादव ने पांच प्रमुख परियोजनाओं की शुरुआत की


नवदेहली, 6 अक्टूबरमासः (हि.स.)। पर्यावरणवनजलबायुपरिवर्तन-मन्त्रालयेन सोमवासरे वन्यजीवसप्ताहस्य २०२५ अन्तर्गतं प्रकल्पभालू सहितं पञ्च प्रमुखपरियोजनानां शुभारम्भः कृतः। देहरादूने आयोजिते सप्तमे राष्ट्रीयवन्यजीवायोगस्य सभायां केन्द्रीयः मन्त्री भूपेन्द्रयादवः अवदत् यत्, जनानां वन्यजीवैः सह सहअस्तित्वं सुनिश्चित्य जैवविविधतायाः संरक्षणे मंत्रालयं निबद्धं व्रतम् आचरति। वन्यजीवव्यवस्थापनार्थं नूतनं, प्रौद्योगिकी-सञ्चालितं, समुदायकेन्द्रितं दृष्टिकोणम् अत्यावश्यकमिति सः अभ्यधात्।

सः सर्वान् हितधारिणः प्रति आह्वानं कृतवान् यत् संरक्षणाय सहकार्यस्य बन्धनं सुदृढं क्रियते, चोक्तवान्— “वन्यजीवसंरक्षणं केवलं कर्तव्यं नास्ति, अपितु प्रकृतेः जनैः च सह सामञ्जस्यं स्थापयितुं सार्वजनिक-उत्तरदायित्वम् अस्ति।”

वन्यजीवसप्ताहस्य २०२५ विषयः “मानववन्यजीव सहअस्तित्वम्” इति निरूपितः, यस्य प्रयोजनं मानवस्य च वन्यजीवानां च मध्ये सौहार्दसंबन्धं स्थापयित्वा संघर्षान् न्यूनीकर्तुम् अस्ति। अस्मिन् कार्यक्रमे पञ्च नूतनाः राष्ट्रियपरियोजनाः आरब्धाः—

नद्यां वसतां डॉल्फिन इति जीवीनां संख्यावृद्ध्यर्थं तेषां च आवाससंरक्षणाय प्रकल्पडॉल्फिन (द्वितीयः चरणः)। देशव्यापिनम् आलस्यभालूनां संरक्षणाय विशेषयोजनाप्रकल्पभालूः

संकटग्रस्तस्य घड़ियालस्य प्रजातेः रक्षणाय राष्ट्रीयस्तरीया इकाई प्रकल्पघड़ियालः।

मानव–वन्यजीवसंघर्षन्यूनीकरणाय राष्ट्रीयकार्ययोजना।

नूतनप्रौद्योगिकीनां नीतिगवेषणस्य च प्रोत्साहनार्थं संस्थापितं वन्यजीवानुसन्धान-प्रशिक्षणाय उत्कृष्टताकेन्द्रम्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता