Enter your Email Address to subscribe to our newsletters
मुरादाबादम् 07 अक्टुबरमासः (हि.स.)। अन्तर्राष्ट्रियहिन्दूपरिषदस्य राष्ट्रीयबजरङ्गदलस्य च महानगरजनपदमुरादाबादे सामूहिकसभा गुलाबबाडीस्थविद्यामन्दिरविद्यालये सम्पन्ना। अस्मिन् सत्रे आगामिकार्यक्रमान् प्रति चर्चा जाता। मुख्यातिथिः क्षेत्रसङ्गठनमहामन्त्री सुभाषजोशी इत्यनेन उक्तं यत् आगामिदीपावल्याः अवसरस्य सन्दर्भे संस्थायाः पक्षतः प्रतिवर्षवत् अस्मिन्नेव वर्षेऽपि निर्धनहिन्दुबालकेभ्यः दीपावलिकीट् वितरणं भविष्यति।
सुभाषजोशी इत्यनेन पुनः उक्तं यत् अस्मिन् कीटे निर्धनहिन्दुबालकेभ्यः कृते दीपावलिपूजनसामग्री, लक्ष्मीगणेशयोः मूर्तिः, झालरः, दीपकः, मोमबत्तिः, 500 ग्राम् मिष्ठान्नं, पटाखे इत्यादयः च पर्वसमये उपयुज्यमानवस्तूनि च भविष्यन्ति। एषः कार्यक्रमः 17 अक्टुबर-दिनाङ्के संकटमोचन-उद्याने विजयनगरे आयोज्यते।
राष्ट्रियबजरङ्गदलस्य प्रदेशाध्यक्षः रोहन-सक्सेनः इत्यनेन उक्तं यत् आगामिकार्तिकपूर्णिमायाः गङ्गास्नाने तिग्रीमेलनाम्नि अस्मिन्नेव वर्षे संस्थायाः पक्षतः विशालसेवाशिविरः 27 अक्टुबरतः 6 नवम्बरपर्यन्तम् आयोज्यते, यस्मिन् प्रतिदिनं भोजनं, चायं, नि:शुल्कं बीपी तथा शुगरपरीक्षा च भविष्यति। अन्तर्राष्ट्रियहिन्दूपरिषदस्य जनपदमहामन्त्री आनन्दप्रजापतिना अमनसैनीं राष्ट्रियबजरङ्गदलस्य जनपदमहामन्त्री इति नियुक्तः।
सभायां पवित्रशर्मा, गौरवसैनी, सुरेशगुप्तः, अमितअग्रवालः, देवीलालप्रजापतिः, रोहितभटनागरः, गङ्गाराणः, अमनसैनी, राजाचन्द्रवंशी, आकाशः, अजयः, रोहितः, प्रेमचरणसिंह इत्यादयः बहवः कार्यकर्तारः उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता