Enter your Email Address to subscribe to our newsletters
वाराणसी,07 अक्टूबरमासः (हि.स.)।उत्तरप्रदेशराज्ये वाराणस्यां स्थिते काश्यां हिन्दुविश्वविद्यालये कुलपतिः प्रो० अजितकुमारः चतुर्वेदी नामकः आन्तरिक-परिवेदन-समितेः पुनर्गठनं कृतवान्। अस्याः समितेः अध्यक्षया नियुक्ता अस्ति — प्रो० निधिशर्मा (अर्थशास्त्रविभागः, सामाजिकविज्ञानसंकायः)। इति समाचारं विश्वविद्यालयस्य जनसम्पर्ककार्यालयेन प्रदत्तम्।
समित्यां सदस्याः सन्ति —
प्रो० जयसिंहः (दर्शनानुभागः, महिला-महाविद्यालयः),
प्रो० प्रियांका गीते (वाणिज्यसंकायः),
प्रो० संजीवकुमारः (सांख्यिकीविभागः, विज्ञानसंस्थानम्),
डा० अर्पिता चटर्जी (प्राचीनभारतीयइतिहास-संस्कृति-पुरातत्त्वविभागः, कलासंकायः),
प्रो० सरिताचौधरी (बालचिकित्सा-शल्यविभागः, चिकित्सासंस्थानम्),
प्रो० गोपालकृष्णशर्मा (विधिसंकायः),
डा० मोहिनी झांवर (गैरसरकारीसंस्थानप्रतिनिधिः),
ए० वेलू (उपकुलसचिवः, शिक्षण-प्रशासनम्) इत्येते।
विश्वविद्यालय-अनुदान-आयोगेन २०१५ तमे वर्षे प्रदत्त-विनियमनस्य आलोकम् अनुसृत्य विद्यार्थिनां परिवेदनानां परीक्षणार्थं द्वौ छात्रौ अपि समितौ सम्मिलितौ स्तः —
सुयशः मौर्यः (एम्०एफ्०ए०, दृश्यकलासंकायः),
स्नेहिलः (शोधार्थी, कृषिविज्ञानसंस्थानम्)।
---------------
हिन्दुस्थान समाचार