काशीहिन्दुविश्वविद्यालये अनुसन्धन-अवसंरचनायाः प्रोत्साहनम् — शीघ्रमेव प्रस्तावाः आमन्त्रिताः भविष्यन्ति
विश्वविद्यालयस्य अनुसन्धान-पारिस्थितिक-तन्त्रं अधिकं सुदृढं कर्तुं कुलपतिना प्राध्यापक-अजितकुमारचतुर्वेदिना नूतनाप्रयासः आरब्धः। वाराणसीनगरम्, 07 अक्टूबरमासः (हि.स.) वाराणस्यां स्थिते काशीहिन्दुविश्वविद्यालये शीघ्रमेव सदस्येभ्यः प्रमुखानुसन्धानसु
बीएचयू कुलपति


विश्वविद्यालयस्य अनुसन्धान-पारिस्थितिक-तन्त्रं अधिकं सुदृढं कर्तुं कुलपतिना प्राध्यापक-अजितकुमारचतुर्वेदिना नूतनाप्रयासः आरब्धः।

वाराणसीनगरम्, 07 अक्टूबरमासः (हि.स.) वाराणस्यां स्थिते काशीहिन्दुविश्वविद्यालये शीघ्रमेव सदस्येभ्यः प्रमुखानुसन्धानसुविधानां स्थापने कृते प्रस्तावाः आमन्त्रिताः भविष्यन्ति। अस्य क्रियायाः उद्देश्यः विश्वविद्यालयस्य अनुसन्धानेकं पारिस्थितिकतन्त्रम् अधिकं विस्तारयितुम् अधिकं च सुदृढं कर्तुमस्ति, येन नूतनानां सुविधानां संस्थापनया विश्वविद्यालयस्य अनुसन्धानप्रयत्नाः अधिकं सुदृढा भवन्ति। एषा घोषणा कुलपतिना प्राध्यापक-अजितकुमारचतुर्वेदिना कृता।

कुलपतिनः प्रो. चतुर्वेदेः मतानुसारं उत्तमविज्ञानाय निवेशः आवश्यकः भवति — न केवलं संसाधनरूपेण, अपितु प्रतिभावान् विद्यार्थिनः, अध्यापकाः, उत्तमा अवसंरचना, उच्चस्तरीय अनुसन्धानं च प्रोत्साहयन्ती संस्कृति इत्येतस्य रूपेणापि। प्रमुखानुसन्धानसुविधानां स्थापने कृते प्रस्तावान् आमन्त्रयितुं या एष प्रयास, सा बीएचयू-विश्वविद्यालयस्य अनुसन्धानोत्कृष्टतायाः दिशि एकः अन्यः चरणः भविष्यति।

अस्य आगामीप्रयासस्य अन्तर्गतं पञ्चविंशतिलक्षरूप्यकपर्यन्तमधिकमूल्ययुक्ताः प्रस्तावाः परीक्ष्यन्ते। कुलपतिना अध्यापकान् प्रति आह्वानं कृतम् – “भवन्तः परम्परागतविचारात् अग्रे गच्छन्तु, तथा च तादृशान् विचारान् प्रस्तोतुं प्रयतन्तां, ये विश्वविद्यालयस्य अनुसन्धानयात्रायां ‘गेम-चेंजर्’ (परिवर्तकाः) स्यात्।”

सः संकायसदस्यान् प्रति उक्तवान् — “एतादृशीं दल निर्माणयन्तु, यस्यां विश्वसनीयता च महत्वाकाङ्क्षा च उभे स्तः। यदि भवन्तः तादृशं विचारं धारयन्ति, यः अनुसन्धाननवोन्मेषयोः क्षेत्रे विश्वविद्यालयस्य प्रगतिं शीघ्रीकुर्यात्, तर्हि संसाधनानां चिन्ता विश्वविद्यालयस्य भविष्यति।”

एते प्रस्तावाः विज्ञाननवोन्मेषपरियोजनानां, अन्तःविषयाध्ययनानां, फैब्रिकेशन् (निर्माणप्रक्रिया), विश्लेषणात्मक अथवा चरित्रवर्णनसुविधानां संस्थापनाय, उन्नतसॉफ्टवेयरसिस्टम-यन्त्रविकासस्थापनाय, तथा उच्चस्तरीयानुसन्धानं प्रोत्साहयन्तीभ्यः अन्याभ्यः प्रयासभ्यश्च कृते उद्घोषिताः भविष्यन्ति।

कुलपतिना विश्वविद्यालयस्य भूविज्ञानविभागस्य गौरवपूर्णं परम्परां प्रशस्य उक्तं यत् विभागः स्वस्थापनायाः शतत्रयतृतीयवर्षे प्रविष्टः अस्ति। तेन उक्तं यत् विभागस्य संस्थापकप्रमुखः प्रो. के. के. माथुर इत्यस्मिन् औपनिवेशिके काले, यदा देशे संसाधनानि तकनीकश्च सीमिते स्तः, तथापि विभागं नूतनैः शिखरैः प्राप्तं कर्तुम् अतुलनीयं योगदानं कृतवान्।

प्रो. चतुर्वेदिना उक्तं — “प्रो. माथुर इत्येते आदर्शाः, ये अस्मान् आह्वानष्वपि उत्कृष्टतां प्राप्तुं प्रेरयन्ति।”

हिन्दुस्थान समाचार / अंशु गुप्ता