मुख्यमंत्री ऊपरितनस्य असमस्य भ्रमणे, करिष्यति बहूनां परियोजनानां शुभारंभम्
गुवाहाटी, 7 अक्टूबरमासः (हि.स.)।असमराज्यस्य मुख्यमन्त्री डॉ० हिमन्तबिस्वसरमा अद्य आरभ्य डिब्रूगढ़, तिनसुकिया च धेमाजी जिलानां विशेषभ्रमणे निर्गच्छन्ति। अस्य दौरे समये ते मुख्यमन्त्री-महिला-उद्यमिता-अभियानस्य प्रारम्भिकपूंजी-वितरणं सहितान् अनेकान् व
मुख्यमंत्री डॉ हिमंत बिस्व सरमा द्वारा साझा तस्वीर।


गुवाहाटी, 7 अक्टूबरमासः (हि.स.)।असमराज्यस्य मुख्यमन्त्री डॉ० हिमन्तबिस्वसरमा अद्य आरभ्य डिब्रूगढ़, तिनसुकिया च धेमाजी जिलानां विशेषभ्रमणे निर्गच्छन्ति। अस्य दौरे समये ते मुख्यमन्त्री-महिला-उद्यमिता-अभियानस्य प्रारम्भिकपूंजी-वितरणं सहितान् अनेकान् विकासपरियोजनाः जनानाम् समर्पयिष्यन्ति।

मुख्यमन्त्रिणा उक्तम् “अस्मिन यात्रायाम् अहं प्रत्यक्षतया जनैः सङ्गमं कर्तुं उत्सुकः अस्मि।”

अद्य गुवाहाट्याः खनापारा क्षेत्रे स्थिते पशुचिकित्साविज्ञानमहाविद्यालायस्य क्रीडाङ्गणे आयोज्य कार्यक्रमे ते ओरुणोदोई ३.० योजनायाः शुभारम्भं कुर्वन्ति।

हिन्दुस्थान समाचार