Enter your Email Address to subscribe to our newsletters
भाेपालम्, 7 अक्टूबरमासः (हि.स.)। अद्य (मङ्गलवासरे) द्रुतकार्यबलस्य ( RAF) स्थापना दिवसः अस्ति। द्रुतकार्यबलम् अक्तूबर् 1992 तमे वर्षे केन्द्रीय आरक्षकबलस्य (CRPF) दश स्वाधीन बटालियनों परिवर्त्य निर्मितम् आसीत्। अस्य बलस्य स्थापना दङ्गेषु नियन्त्रणाय, समाजस्य मध्ये विश्वासस्य संवर्धनाय, देशस्य आन्तरिकसुरक्षाय च कृता आसीत्। अस्मिन् अवसरे मुख्यमन्त्री डॉ॰ यादवः द्रुतकार्यबलस्य वीरसेनानिकेभ्यः अभिनन्दनं दत्तवान्।
मुख्यमन्त्री डॉ॰ यादवः स्वस्य सामाजिकमाध्यमे ‘एक्स्’ इति नाम्नि लेखं प्रकाशितवान्—
“Rapid Action Force इत्यस्य स्थापना-दिवसे RAF इत्यस्य समस्तकर्तव्यनिष्ठान् सेनानिकान् तेषां परिवारांश्च हार्दिकं अभिनन्दनं शुभकामनाः च। आपत्कालीनस्थितिषु स्वस्यान्तिकतया, सजगत्वेन, अदम्यसाहसेन च देशवासिनां रक्षा कुर्वन्तः यूयं सर्वे वीरसेनानिकाः भारतस्य सुरक्षायाः सत्यं कवचं भवन्ति। सर्वेभ्यः यूष्मासु गर्वोऽस्ति। जय हिन्द्।”
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता