मणिपुरस्य डीजीपी अखिल भारतीय पुलिस कुश्ती क्लस्टर इत्यत्र पदकविजेतारः सम्मानिताः
इंफालम्, 7 अक्टूबरमासः (हि.स.)।हरियाणाराज्यस्य करनालनगरस्थे मधुबननामकस्थले आयोजिते ७४तमे अखिलभारतीयपुलिस्-कुष्ती-क्लस्टर् २०२५–२६ इत्यस्मिन् मणिपुरराज्यस्य पुलिसदलेन सहभागित्वं कृत्वा पदकं प्राप्तवन्तः प्रतियोगिनः सम्मानिताः। मणिपुरपुलिसमुख्यालयेन
अखिल भारतीय पुलिस कुश्ती क्लस्टर में पदक हासिल करने वालों को सम्मानित करते मणिपुर के डीजीपी


इंफालम्, 7 अक्टूबरमासः (हि.स.)।हरियाणाराज्यस्य करनालनगरस्थे मधुबननामकस्थले आयोजिते ७४तमे अखिलभारतीयपुलिस्-कुष्ती-क्लस्टर् २०२५–२६ इत्यस्मिन् मणिपुरराज्यस्य पुलिसदलेन सहभागित्वं कृत्वा पदकं प्राप्तवन्तः प्रतियोगिनः सम्मानिताः।

मणिपुरपुलिसमुख्यालयेन अद्य प्रकाशिते एकस्मिन् विज्ञप्तिपत्रे उक्तं यत् मणिपुरराज्यस्य पुलिसमहानिदेशकः (डी०जी०पी०) राजीवसिंह नामकः, गतसितम्बरमासे सम्पन्नायाम् अखिलभारतीयपुलिस्-कुष्ती-क्लस्टर्-प्रतियोगितायाम् पदकं विजितवन्तः त्रीन् मणिपुरपुलिसस्य प्रतियोगिनः आदरपूर्वकं सम्मानितवान्।

सम्मानितेषु अन्तर्भवन्ति —महिलापुलिसधिकाऱिणी सहायकोपनिरीक्षिका (ए०एस०आई०) एस्‌. रानीदेवी या आर्म्-रेसलिङ्-प्रतियोगायां स्वर्णपदकं प्राप्तवती,कान्स्टेबल् पी. नन्दजीतसिंहः यः बॉडी-बिल्डिङ् (षष्टिकिलोग्रामवर्गे) स्पर्धायां स्वर्णपदकं विजितवान्,महिलापुलिसधिकाऱिणी सहायकोपनिरीक्षिका (ए०एस०आई०) एम्‌. मेम्चादेवी या आर्म्-रेसलिङ् स्पर्धायां रजतपदकं प्राप्तवती — इति।

डी०जी०पी० राजीवसिंहः एतेषां त्रयाणां पुलिस्क्रीडकानां उज्ज्वलभविष्याय शुभाशंसनं कृतवान्, तथा च अवदत् यत् एते पदकाः राज्यस्य पुलिस्कर्मणां कृते प्रेरणास्रोतः भवन्ति, एतेन अन्ये अपि पुलिस्कर्मिणः एषु क्षेत्रेषु अग्रे सरितुं प्रोत्साहिताः भविष्यन्ति।

----------

हिन्दुस्थान समाचार