Enter your Email Address to subscribe to our newsletters
भोपालम्, 07 अक्टूबरमासः (हि.स.)। मध्यप्रदेशराज्यस्य राज्यपालः मंगुभाई पटेलः अद्य (मङ्गलवासरे) राजधानीभूते भोपालनगरस्थे राष्ट्रीयउद्यान–वनविहार इत्यस्मिन् राज्यस्तरीय–वन्यजीवसप्ताह–२०२५ इत्यस्य समापनसमारोहे सहभागी भविष्यन्ति। प्रातः एकादशवादने आयोज्यमाने अस्मिन् समारोहेषु राज्यपालः पटेलः विभिन्नप्रतियोगितानां विजेतृप्रतिभागिनः पुरस्कारप्रमाणपत्रे च वितरिष्यन्ति। अस्मिन् समारोहे वनराज्यमन्त्री दिलीपः अहिरवारः अपि उपस्थितः भविष्यति।
जनसम्पर्क–अधिकारी के.के. जोशी इत्यनेन प्रदत्तया सूचनया उक्तम् यत् समापनसमारोहात् पूर्वं वनविहारे वन्यजीवसप्ताहस्य अन्तर्गते कक्षा नर्सरीतः कक्षा प्रथमपर्यन्तं बालकानां कृते वन्यजीव इति विषयक–टोडलर–वाक् इत्यस्य आयोजनं भविष्यति। तदनन्तरं विद्यालयीनमहाविद्यालयीन छात्र–छात्राणां कृते वन्यजीव इति विषयक–मुखचित्रण–प्रतियोगिता अपि आयोजिताऽपि भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता