भारतं विश्वपैराएथलेटिक्सदिग्गजशृंखलया प्राप्तं वैश्विकगौरवं, क्रीडकाः भृशं प्रशंसिताः
नव दिल्ली, ०7 अक्टूबरमासः (हि.स.)।रविवासरे नूतनदिल्लीस्थे जवाहरलालनेहरू-क्रीडाङ्गणे भव्यरीत्या “इण्डियन् ऑयल् विश्व-पैरा-अथलेटिक्स्-चैम्पियनशिपः 2025” नामकः ऐतिहासिकः क्रीडा-महोत्सवः सम्पन्नः। अत्र शताधिकदेशेभ्यः आगतानां द्विसहस्राधिकानां (2200) अध
भारतीय पैरा एथलीट प्रीति पाल


नव दिल्ली, ०7 अक्टूबरमासः (हि.स.)।रविवासरे नूतनदिल्लीस्थे जवाहरलालनेहरू-क्रीडाङ्गणे भव्यरीत्या “इण्डियन् ऑयल् विश्व-पैरा-अथलेटिक्स्-चैम्पियनशिपः 2025” नामकः ऐतिहासिकः क्रीडा-महोत्सवः सम्पन्नः। अत्र शताधिकदेशेभ्यः आगतानां द्विसहस्राधिकानां (2200) अधिकं खेळकानां सहभागः आसीत्।

भारतदेशेन प्रथमवारम् अस्य प्रतिष्ठितस्य स्पर्धायाः आयोजनं कृतम्, यत्र तेन अद्यावधि स्वस्य श्रेष्ठतमं प्रदर्शनं कृतं — षट् सुवर्ण, नव रजत, सप्त कांस्य — इत्येवं द्वाविंशतिः पदकाः प्राप्ताः।

एतत् आयोजनं भारतस्य आयोजन-क्षमतां जगतः समक्षं प्रतिपादयामास। क्रीडाजगतः वरिष्ठाः, अन्ताराष्ट्रिय-पैरा-अथलेटाः च अभ्यनन्दन् यत् अस्मिन् आयोजनसफलतेन भारतस्य छविः “नूतनं शिखरम्” प्राप्यते।

जवाहरलालनेहरू-क्रीडाङ्गणं, यत् 2010-कौमन्वेल्थ्-गेम्स् अपि आतिथ्यं दत्तवान्, पुनरपि भारतस्य आयोजन-कौशलस्य प्रतीकं जातम्।

नीदरलैण्ड्-देशस्य प्रसिद्धा खेळिका फ्ल्योर्-जोंग् — षट्-विधा विश्वविजेता च पैरालिम्पिक्-पदक-प्राप्ता — दीर्घ-कूदनं च शतमीटर् टी64 वर्गे च द्वे सुवर्णे विजित्य उक्तवती — “मम भारतानुभवः अद्भुतः आसीत्। अत्रातिथ्यं आयोजनं च विश्वस्तरस्य आसीत्।”

भारतानां पैरा-क्रीडा-प्रतीका दीपा मलिक उक्तवती — “एषः देशे पैरा-क्रीडानां महान् उत्सवः आसीत्। भारतः अधुना केवलं आयोजनतले न, अपि तु चिन्तनतले अपि समावेशकः जातः। वयं 2036-वर्षस्य कृते सर्वथा सिद्धाः स्मः।”

पैरा-प्रशिक्षकः अमित् सरोहा उक्तवान् — “एषः भारतस्य अद्यावधि श्रेष्ठतमः अन्तर्राष्ट्रीयः आयोजनः आसीत्। देशः अधुना पैरालिम्पिक्-गेम्स्-आयोजनाय योग्यः अभवत्।”

त्रिवारं विश्वविजेता सुमित् अन्तिल् उक्तवान् — “टीओपीएस्-योजना भारतीय-पैरा-अथलेटानां प्रदर्शनं क्रान्तिकररूपेण परिवर्तितवती।”

जर्मनीदेशीयः मार्कस् रेम्, कनाडादेशीयः ग्रेग् स्टीवर्ट्, अमेरिकादेशीयः डेरेक् लोसीडेन्ट् च अपि भारतीय-आयोजकान् प्रशंस्य आयोजनम् “अविस्मरणीयं अनुभवम्” इति व्याहरन्।

भारतदेशः अधुना कतार्, संयुक्त-अरब-अमीरात्, जापान् इत्येषां पश्चात् चतुर्थः एशियदेशः जातः, यः अस्य प्रतिष्ठितस्य चैम्पियनशिपस्य आतिथ्यं दत्तवान्।इदं आयोजनं न केवलं भारतस्य क्रीडा-आयोजन-शक्तिं वैश्विक-मञ्चे सुदृढीकृतवान्, अपि तु देशं पैरा-क्रीडायाः क्षेत्रे नूतनाम् अन्ताराष्ट्रियं परिचयं च दत्तवान्।

---------------

हिन्दुस्थान समाचार