विश्व पैरा एथलेटिक्सदिग्गजशृंखलायां भारतम् अजयत्  22 पदकानि, मुख्यमंत्री  सायोऽददात् वर्धापनानि
रायपुरम् 7 अक्टूबरमासः (हि.स.)।नवदिल्लीनगरमध्ये आयोजितायां विश्व-पैरा-अथलेटिक्स्-चैम्पियनशिप् २०२५ इत्यस्मिन् भारतस्य पैरा-अथलीट्-खेलकाः अदम्येन उत्साहेन, अथकप्रयासेन च विश्वमञ्चे नूतनं इतिहासं रचितवन्तः। अस्मिन् प्रतिष्ठिते प्रतियोगने भारतीयदलम् अ
मुख्यमंत्री  विष्णु देव साय फाइल फाेटाे


रायपुरम् 7 अक्टूबरमासः (हि.स.)।नवदिल्लीनगरमध्ये आयोजितायां विश्व-पैरा-अथलेटिक्स्-चैम्पियनशिप् २०२५ इत्यस्मिन् भारतस्य पैरा-अथलीट्-खेलकाः अदम्येन उत्साहेन, अथकप्रयासेन च विश्वमञ्चे नूतनं इतिहासं रचितवन्तः। अस्मिन् प्रतिष्ठिते प्रतियोगने भारतीयदलम् अद्यतनपर्यन्तं श्रेष्ठतमं प्रदर्शनं कृत्वा षट् स्वर्णपदकानि, नव रजतपदकानि, सप्त कांस्यपदकानि च लब्ध्वा, एकविंशतिधिकानि (२२) पदकानि विजित्य देशस्य कीर्तिं विश्वे प्रसारितवन्तः।

छत्तीसगढराज्यस्य मुख्यमंत्री विष्णुदेवसायः भारतीय-पैरा-अथलीट्-खेलकानां अस्य गौरवपूर्णस्य प्रदर्शनस्य निमित्तं हृदयपूर्वकं अभिनन्दनं कृत्वा उक्तवान् यत् — “एषा सिद्धिः समग्रस्य राष्ट्रस्य प्रेरणास्रोतः अस्ति।” तेन उक्तं यत् — “अस्माकं पैरा-अथलीट्-खेलकैः एतद् प्रमाणीकृतं यत् यदि संकल्पः दृढः भवति, प्रयत्नः च अविरतः, तर्हि काचित् अपि मंजिल् असंभवः न भवति।”

एषः प्रदर्शनः केवलं क्रीडाजगतः एव प्रेरणादायकः नास्ति, अपितु देशस्य प्रत्येकनागरिकस्य अन्तः नूतनाम् ऊर्जा-विश्वासयोः सञ्चारं करोति।

मुख्यमंत्री सायः सर्वान् विजेतृ-खेलकान् उज्ज्वलभविष्याय शुभाशंस्य उक्तवान् यत् — “एषा तेषां सिद्धिः ‘नवभारतस्य नवीना उड़ान’ इत्यस्य सजीवदृष्टान्तः अस्ति।” तेनोक्तं यत् — “छत्तीसगढराज्यं सहितं समग्रं भारतं स्व-पैरा-अथलीट्सु गर्वं अनुभवति, येन विश्वस्य समक्षं भारतीयस्य उत्साहस्य नूतना परिभाषा लिखिता अस्ति।”

हिन्दुस्थान समाचार