हिंदूवादी संगठनानि लाउडस्पीकरद्वारा उद्यमानस्य अजान इत्यस्य कृतो विरोधः
वाराणसी, 08 अक्टूबरमासः (हि. स.)।वाराणस्यां कोतवालिक्षेत्रान्तर्गत भारतेंदुपार्के मङ्गलवासरे प्रभाते हिन्दुवादिसङ्घटनैः लाउड्स्पीकरयन्त्रे घोष्यमाणायाः अजानस्य विरोधः कृतः। “आई लव् महादेव” तथा “आई लव् योगी आदित्यनाथ” इति लेखितानि पोस्टराणि हस्तेषु
अजान का विरोध करते लोग (वीडियो से ली फोटो)


वाराणसी, 08 अक्टूबरमासः (हि. स.)।वाराणस्यां कोतवालिक्षेत्रान्तर्गत भारतेंदुपार्के मङ्गलवासरे प्रभाते हिन्दुवादिसङ्घटनैः लाउड्स्पीकरयन्त्रे घोष्यमाणायाः अजानस्य विरोधः कृतः। “आई लव् महादेव” तथा “आई लव् योगी आदित्यनाथ” इति लेखितानि पोस्टराणि हस्तेषु धारयन्तः ते सङ्घटनस्य जनाः उद्यानं प्राप्तवन्तः। ते लाउड्स्पीकरयन्त्रे अजानं घोषयितुं निषेध्य, तत् स्थगयितुं चेतावनीं दत्तवन्तः।

हिन्दुसङ्घटनस्य प्रवक्ता सुधीरनामकः उक्तवान् —

“अस्मिन्नेव बनारसे हनुमानचालीसाया घोषणायाः विरोधः क्रियते चेत्, वयं अपि लाउड्स्पीकरयन्त्रे अजानं सहनं न करिष्यामः। लाउड्स्पीकरयन्त्रे घोष्यमाणायाः अजानस्य विरोधार्थं अद्य वयं प्रदर्शनं कृतवन्तः, अग्रे च मस्जिद्द्वारे घोष्यमाणायाः अजानायाः अपि विरोधः भविष्यति। अजानशब्दस्य अर्थं वयं न जान्मः, तर्हि तत् यन्त्रे कथं श्रोतव्यम्?” इति।

---------------

हिन्दुस्थान समाचार