महर्षि वाल्मीकिनः आदर्शोऽद्यापि प्रासंगिकः - मुख्यमंत्री
देहरादूनम्, 7 अक्टूबरमासः (हि.स.)।महर्षेः वाल्मीकिनः जयंतीसमये मुख्यामन्त्री पुष्करसिंहधामी इत्यस्मिन् स्वराजकीय-निवासे तस्य चित्रे पुष्पाञ्जलिं समर्प्य श्रद्धाञ्जलिं दत्तवान्। मुख्यामन्त्रिणा उक्तं यत् महर्षेः वाल्मीकिनः आदर्शाः अद्यापि प्रासङ्गिक
मुख्यमंत्री पुष्कर सिंह धामी महर्षि वाल्मीकि के चित्र पर पुष्प अर्पित करते ।


देहरादूनम्, 7 अक्टूबरमासः (हि.स.)।महर्षेः वाल्मीकिनः जयंतीसमये मुख्यामन्त्री पुष्करसिंहधामी इत्यस्मिन् स्वराजकीय-निवासे तस्य चित्रे पुष्पाञ्जलिं समर्प्य श्रद्धाञ्जलिं दत्तवान्। मुख्यामन्त्रिणा उक्तं यत् महर्षेः वाल्मीकिनः आदर्शाः अद्यापि प्रासङ्गिकाः सन्ति।

मुख्यामन्त्रिणा धामिना उक्तं — “रामायणस्य माध्यमेन समाजाय आदर्शान्, मर्यादां, मानवतां च दर्शिता। तस्य आदर्शाः अद्यापि प्रासङ्गिकाः सन्ति।”ते पुनरपि अवदन् — “रामायणस्य रचयिता, आदिकविः महर्षिः वाल्मीकि, तस्य रचनाभ्यः सत्यस्य, प्रेम्णः, कर्तव्यस्य च मार्गे गन्तुं प्रेरणा लभ्यते। तेन प्रदत्ताः समरसता-सद्भाव-मानवता-रूपाः नैतिकमूल्याः सर्वदा अस्मान् प्रेरयिष्यन्ति।”

हिन्दुस्थान समाचार